SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२] द्वितीयं वितउं । " अम्बावत्यां पुर्यां नम्बसेनो राजा । तम्य आवासात् द्वितीयभूमेः रत्नानि गृहीत्या आगच्छ ।” तदा राजा राज्य मन्त्रिणे भलाप्य निर्गतः । तत्र गतः । राज्ञा भोजनार्थे धान्यानि बाह्ये पचित्वा मध्ये गीयन्ते । जनानां शिरसि दीयन्ते । तेषां मध्ये भूत्वा आवासे गतः । तत्र ५० अपवरिका: । भुक्त्वा तासां मध्ये स्थितः । सन्ध्यायां निःसृतो द्वितीयभुवने", रत्नानि न । तृतीयभुवने वृद्धया वृषल्या समं गतः। तत्र राजकन्या कुमारी तिष्ठति । तस्याऽने १६ सोलहिका नृत्यं कुर्वन्ति । नृत्यं विसर्जितम् । तया तालकं दतम् । कन्या मध्येऽस्ति । सोऽपि तत्र स्थितः ।। अस्मिन्नवसरे गवाक्षे कन्याया लेखः केनाऽप्यर्पितः । जालिकामुवाट्य वाचिसः । तत्र रक्तसण्डी आनीताऽस्ति । सा रत्नानि लात्वा तामारूढा । द्विपटी मध्ये विस्मृता । तस्या आनयनाय पुरुषः प्रहितः । एतावता विक्रमादित्येन शय्याया द्विपटी गवाक्षाधो मुक्ता ! स पुगान् ता ग्रहीतुम् अधः प्रविष्टः। तदा राज्ञा करवालं लात्वा तम्य शिरश्छे. दितम् । तां द्विपटी गृहीत्वा स्वयं सही चटितः । मौनवानेवान्यविश्यमार्गे याति । तदा तया पृष्टम् । 'वं कुत्र यास्यसि ?" तेनोक्तम् । “ पूर्वस्यां दिशि चतुरङ्गद्यूतकारद्वारे हारिताऽसि । तस्य त्वामयिष्यामि ।" तदा तया चिन्तितम् । “अहो 1 उभयभ्रष्टा जाता !" मौनमाश्रित्य स्थिता। १२ योजनमतिक्रम्य उत्तीर्य सुप्तः । सा जागति । तदा सिंहद्वयमागतम् । तया जागरितः । तेन एकवाणेन विद्वौ मृतौ । तदा कथितम् । " रे ! बाणमानय ।" नाऽऽनयति " नाऽऽनेप्यसि, सदा मारयामि ।" " मा मारय ।" २२०. द्वितीयभौमी. २२१. अपवरिका. २२२. भुक्ता. २२३. निसृतो द्वितीया . २२४. वृषलासमं, २२५. विस्मृताः. २२६. गृहीन. २२७. शिरच्छेदितं. २२८, हारितास्ति. २२९. स्थिताः, २३०, जागातः. २३१. बाणमानयः. २३२. नानयध्यति. २१३. मारयः. For Private And Personal Use Only
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy