________________
शब्दरत्नाकरेसतालव्यौ च, पृषत् पृषतो बिलशायिनि ॥३२७॥ कन्दली नन्तो ङयन्तश्च कदली त्रिषु कन्दला । हस्तायामऽश्याममृगे ऋश्य-रिश्यौ च सम्मतौ॥३२८॥ ऋष्य-रिष्यौ मृगभेदे, वाताभिमुखगामिनि । मृगे वातप्रमीः पुंस्त्रीदन्तो डीबन्तकोऽप्ययम् ॥२२९॥ अमि पुंसि वातप्रमी शसि वातप्रमीनिति । ङौ वातप्रमीति रूपं ग्रामणीवञ्च शोषकम् ॥३३०॥ स्त्रियामीदन्तं लक्ष्मीवद् डीबन्तं तु नदीसमम् । श्वाविधि शललः शल्यः शल्यकः पुंस्त्रियोर्मतः ॥२३॥ तच्छलाकायां तु शलं शललस्त्रिषु गोधिका । अवलत्तिका लत्तिका गोधा, सर्पसुते पुनः ॥३३२॥ गोधेर-गोधारौ, पल्यां गृहोली गृहगोलिका। गृहोलिका मुसली मूईन्यतालव्यदन्त्यभाक् ॥३३३॥ अञ्जन्यामञ्जनाधिका हालिनी च हलाहलः । कृकलासे कृकुलासः सरटः सरडस्तथा ॥३३४॥ सरण्डश्च प्रतिसूर्यः प्रतिसूर्यशयानकः। शयानकः, आखौ तु स्याद् मूषिका मूषिकोऽपि च ३३५ उन्दरो-न्दुरो-न्दुरवः कुन्दुमूषी तु मूषिका । मूषा च, गन्धमूष्यां तु छुछुन्दरी छुछुन्दुरी ॥३३६॥ ओतौ बिडालो बिलालो दरुटो दरुडान्वितः । हीको ह्रीको हीकु कुर्लज्जालौ नकुलोऽपि च ॥३३७॥ मार्जालीयश्च मार्जारोऽहौ भुजङ्गो भुजङ्गमः ।
"Aho Shrut Gyanam"