________________
चतुर्थः काण्डः । शुनखो भषणो भषकोऽपीन्द्रमहकान्वितः ।।३१६।। इन्द्रमहकामुकश्च श्वाने, द्वौ मृगयापटौ । विश्वकद्रुर्विश्वकद्रूः, शुनकी शुनका शुनी ॥३१॥ श्वानकणे शुनस्कर्णः श्वकर्णोऽपि निगद्यते । सैरिभे मह-महिषौ लुलायश्च लुलायुयुक् ॥ ३१८ ॥ सिंहे पारिन्द्र-पारीन्द्रौ कण्ठीरव-कण्ठेरवौ । केशरी दन्त्यतालव्यः, व्याघ्र द्वीपीव दीपिनः ॥३१९॥ चित्रकश्चित्रकायोऽपि, शरभेऽष्टापदोऽष्टपात् । गण्डके खडी खडीरः खड़ो वाघीणसोऽपि च ॥३२॥ दन्त्यतालव्यान्तः, कोले शूकरः सूकरः किरिः। किरः, ऋक्षे तु भल्लूको भाल्लूको भल्लुकस्तथा ॥३२१॥ भाल्लुकोऽपि च भालूकश्छोभल्लोऽप्यच्छभल्लवत् । गोमायौ फेरु-फेरण्डौ फेरवो भूरिमायवत् ॥३२२॥ भूरिमायुर्जम्बुकश्च जम्बूकोऽपि शृगालवत् । सृगालोऽपि शिवाऽऽबन्तःखिङ्किरः खिलीरा स्त्रियाम् ३२३ भूम्न्युभौ तु शिवाभेदे खट्टाङ्गे वारि-वालुके। भिक्षुभङ्गेऽपि, कीशे तु प्लवंगः सप्लवङ्गमः ॥३२॥ प्लवङ्गः प्रवगोपेतः प्रवङ्गोऽथ मृगे भवेत् । मर्कटः कर्मटस्तद्वत् कुरङ्गश्च कुरङ्गमः ॥३०५॥ वातायुश्च सवातायुदन्त्यतालव्यपूर्वगः । शारङ्गः शबलवर्णे चातकेऽपि ससार्गकः ॥३२६॥ मृगभेदे कृष्णसारकालसारौ सदन्त्यको ।।
"Aho Shrut Gyanam"