________________
७८
शब्दरत्नाकरेवाड् , दमयो जितहलवोट्रोरेकधुरावहे ॥३०५॥ एकधुरीणैकधुरौ, धूर्वहे तु धुरन्धरः।। धूरीणधुर्यधौरेया धौरेयकोऽथ पृष्ठयके ॥३०६।। स्थौरी स्थूरी स्थूली, षोडः षोडन् षोडत इत्यपि । षड्दन्ते, सकूटे तु कुकुदे ककुदं ककुत् ॥ ३०७ ॥ स्त्रीराचिह्न शैलाग्रे श्रेष्ठेऽपि इयमन्तिमम् । नैचिकं नैचिकी शीर्षे कूणिकायां तु कूणिवत् ॥३०॥ शृङ्गं शृगः शृङ्गिः शृङ्गी विषाणोक्ता विषाण्यपि । विषाणं विषाणो गव्यां गौईयोरनुडुह्यहो ॥ ३०९ ॥ अनुडाही तम्पा तम्बा माहेयी सह माहया । स्रवद्गर्भा ववतोका एतोका चोत्तमा च गौः ॥३१॥ नैचिकी निचिकी नीचिकी नीचीक्यऽप्यऽकोपना । सूरता सुरता सूरथा सुरथाऽथ गोकुले ॥ ३११ ॥ गोधनं धनं कीलस्तु पुस्त्रियोः पुष्पलान्वितः । पुष्पलकः शिवकश्च शिवोऽपि ध्रुवको ध्रुवः ॥३१२॥ बन्धने संदानोदाने दामा-दाम-दामो-दितम् । संदितं संदानितेऽजे छगलः छागवत् छगः ॥३१३॥ स्तभ-स्तुभौ, युवाजे तु बर्करो बर्करी तथा । बर्करम् , मेषे तु हुडुहुंडोऽप्युरण ऊरणः॥ ३१४ ॥ वडूटो वरुटस्तद्वद् वरूडो वरुडोऽपि च । भरूडो भरुडोऽप्युक्तो भरूटोऽस्थ्याशे कुकरः॥३१५॥ कुर्करः श्वानः स्वानश्च शुनकः श्वा शुनः शुनिः।
"Aho Shrut Gyanam"