________________
चतुर्थः कानुः । शृङ्खलस्त्रिषु हिञ्जीरे निगडो निगलोऽन्दुकः । अन्दूर्गजबन्धभूमौ वारिर्वारी च तोत्रके ॥ २९५ ॥ वेणुकं वैणुकम् , दन्त्यतालव्यादिः शृणिर्मतः । अङ्कुशे, तदग्रेऽपष्ठं कौद् द्वादशाऽक्षरान्तिमम् ॥२९६|| वीते वातं यतं चोक्ते, वरत्रायां सया पया । कक्ष्या गृहप्रकोष्ठे च काञ्चीसादृश्ययोरपि ॥ २९७ ।। अश्वे तुरगस्तुरङ्गस्तुरङ्गमश्च वाज्यपि । वाजिर्वीतिः पीतिः पीती नान्तोऽश्वायां तु वामिवत्॥२९८॥ वामी-बनायुजा-बानायुजा-वाल्हीका-बाल्हिकाः । पुच्छे लगुलं लागुलं गतिभेदे तु धौरितम् ॥२९९।। धौरितकं धोरणं च धौर्य स्यान्मुखयन्त्रणे । खलीनं खलिन-कवी कविका कवियं कविः॥ ३०० ।। सन्नाहेऽस्य प्रक्षरं प्रखरोऽस्त्री रश्मि-रस्मिके । रुक् च वल्गा वल्गो वागाऽश्वतरे वेगतः सरः ॥३०॥ वेसरो वेसरादश्वायां जाते, मुकयस्तथा । मुकुयो हौ मृगभेदे, गर्दभ्यश्वतरात्मजे ॥३०२॥ अप्युष्ट्रे तु मय-मयू क्रमेलश्च क्रमेलकः । दाशेरकः सदाशेरः, उक्षिण शक्कर-शाकरौ ॥३०३।। शाङ्करश्च वृषा नान्तो वृषोऽपि वृषभर्षभौ । शण्डे षण्डोऽपीडरः स्यादिवरः, विद्धनासिके ॥ ३०४ ।। नस्योतो नस्तितो नस्तोतः स-ठौ प्रेष्ठ-पष्ठतः ।
१ ठकारान्तमित्यर्थः । २ प्रष्ट-षष्ठशब्दाभ्यां परो 'वाट' शब्दः, प्रष्टवाडू , पष्टवाडिति ।
"Aho Shrut Gyanam"