________________
शब्दरत्नाकरेतन्त्रवाय ऊर्णनाभ उर्णनाभिश्च मर्कटः । मर्कटको जालिकश्च जालकारकवत् कृमिः ॥ २८४ ॥ क्रिमिवृश्चिकेऽलि-राल्य-लालिद्रोणो द्रुणो द्रुतः । भ्रमरेऽलि-रली मधुकृत् मधुकरः शिलीमुखः ॥२८५॥ शिलामुखः, मक्षिकायां भिम्भरा भिम्भराल्यऽपि । मधुरस्त्री मधूलं च, माक्षिके वरूटी पुनः ॥ २८६॥ वरटाऽपि च, गन्धोल्यां वर्षकर्या तु चीरिका । चीरी चरुका चिरुका झीरुका झिल्लीकायुता ॥२८॥ झिल्लो झिल्लिका झिलिका विलेपनमले तथा । आतपस्य रुच्यपि च, श्वापदे व्याड-व्यालको ॥ २८८॥ द्विपे मतङ्ग-मातङ्गौ गजो गजों मतंगजः । करी करिदन्ताबलो दन्ती पेचकिपेचिलो ।। २८९ ॥ हस्तिन्यां धेनुका धेनुर्वाशिता वासिता द्वयम् । नार्यामपि कणेरुश्च गणेरुरपि तद् द्वयम् ॥ २९० ॥ वेश्यायां कर्णिकारेऽपि करेणुः स्त्रीनिभीभयोः । विंशतिवर्षेभे विकः, पिक्कोऽपि त्रिंशदब्दके ॥ २९१ ॥ कलभः कडभश्च द्वौ उद्दान्तोपात्तको समौ । निर्मदे राजबाह्ये त्वौपवाह्यश्चोपवाह्यवत् ॥ २९२ ॥ हस्तिदन्ते विषाणं स्याद्विषाण्यपि विषाणकः । तन्मूले तु करीरीवत्करीरिनेत्रगोलके ॥ २९३ ॥ ईषिका स्यादिषीकेवेभगण्डे करटः कटः । गजपश्चिमभागे त्वपरावदऽवरोदिता ॥ २९४ ॥
"Aho Shrut Gyanam"