________________
चतुर्थः काण्डः ।
दर्भः कुशः कुसो मुझे शरस्तालव्यदन्त्यभाक् । दूर्वायां हरितालीबद्धरिता, धमने नडः ॥ २७३ ॥ नलो नटः, कुरुविन्दे मुस्ता त्रिषु च मुस्तकः । इक्षौ गण्डीरी गण्डकी, पुण्ड्रेक्षौ पुण्ड- पौण्ड्रकौ ॥ २७४॥ कासस्तालव्यदन्त्यान्त ईषीका स्यादिषीकया । यवासं यवसंघातेऽर्जुने तु द्वे तृण त्रिणे ॥ २७५ ॥ मालातृणं भ्रूस्तृणं च विषे तु गर-सङ्गरौ । गरलोऽथ हालाहले हालहलो हलाहलः ॥ २७६ ॥ पर्यन्तवने लोकण्युकणी, कीटे कृमिः क्रिमिः । लाक्षायामपि तद्भेदे नीलाङ्गुव नीलङ्गवत् ॥ २७७ ॥ गण्डूपदे किञ्चुलकः किञ्चुलुकोऽपि संमतः । जलसर्पिण्यां जलूका जलौका च जलौकसः ॥२७८|| स्त्रियां वा भूम्नि च जलालोका प्रोक्ता जलौकसः । पुंस्यदन्तो जलायुकाऽस्रपाऽऽबन्ता विजन्तकः ॥ २७९॥ अम्बुमात्रजशङ्खे तु शम्बुः शम्बूश्र शम्बुकः । शम्बूकश्च सशाम्बूकः, कपर्दे तु हिरण्यवत् ॥ २८० ॥ हिरणः कथितः प्राज्ञैर्दीर्घकोशा पुनः स्मृता । दीर्घकोषा च दुर्नामाऽऽबन्तो नान्तो दुर्नाम्न्यपि ॥ २८१ ॥ पिपीलके पीलकोऽपि, क्षुद्रजन्तौ तु धान्यजे । कणादीनः कटाटीनः स्याद् युकाण्डे तु लिक्षया ॥ २८२॥ रिक्षोहंशे कोलकणो मत्कुणोत्कुणकावपि । इन्द्रगोपे विन्द्ररजोऽग्निकोऽथ तन्तुवायके ॥ २८३ ॥
"Aho Shrut Gyanam"
७५