________________
शब्दरत्नाकरेनवमालिका सप्तला सातला कैवत्तीपरे । मुस्तके वानेयं वन्यं प्लवं च परिपेलवम् ॥२४॥ दशपूरं दशपुरं, कटंभरौषधौ मता । भद्रबला राजबला महाबला प्रसारणी ॥२४१।। सरणी सरणा वापि सारणी कटली पुनः । ज्योतिष्का ज्योतिष्मती च तर्कार्या वैजयन्तिका ॥२४२॥ जया जयन्ती पानीयकण्टके तु शृगाटकम् । सङ्घाटिका त्रिकोणश्च त्रिकोने प्रोपमे पुनः ॥२४३॥ बाताममपि बादामं पद्मेब्जोऽदन्त-सन्तषण् । जलात् पङ्कात् सरसोऽपि परे जन्म-ज-रुट्-रूहाः॥२४॥ सरसीरुहं सरसिरहं विसप्रसूतवत् । विसप्रसूनमपि स्यात्कैरविण्यां कुमुद्दती ॥२४५॥ कुमुदिन्यथोत्पले तु कुवेलं कुवलं कुवम् । कुवलयं कैरवे तु कुमुदं कुमुदुत्पले ॥२४६॥ नीले त्विन्दीवरं चन्दीवारमिन्दीकरं तथा । सौगन्धिके तु कल्हारं हकाराकान्तलान्वितम् ।।२४७|| पद्मनाले तु मृणालं मृणाली च विशं विसम् । विसण्डकं च पद्मादिवृन्ते नाली तु नालया ॥२४८॥ नालं किअल्के तालव्य-दन्त्यमध्यं तु केसरम् । नवपत्रे संवर्तिका संवर्तिर्जलनीलिका ॥२४९॥ शेवालं शैवलं शैवालं शेपालं च शीवलम् । शेवलं पाटलशाला वाशुराशु च ब्रीहिवत् ॥ २५० ॥
"Aho Shrut Gyanam"