________________
चतुर्थः काण्डः।
आशुव्रीहिः कलमस्तु कडमश्च कलामकः । मङ्गल्यके मङ्गल्याऽपि मसूरो मसुरस्तथा ॥ २५१ ॥ मसूरा मसुराऽप्येते वेश्यायामपि वाईयः । कलाये सतीनकः स्यात् सातीनश्च सतीनवत् ॥२५२।। सतीलक-सातीलको त्रिकटोऽङ्कट इत्यपि । चणके हरिमन्थः स्याद् हरिमन्थज इत्यपि ॥ २५३ ॥ मुद्दे हरिः सहरितस्तुम्बरस्तु बनोद्भवे ।। राजमुद्ने मकुष्टः स्याद् मयुष्ठोऽपि स-ठान्तिमौ ॥२५॥ मुकुष्ठक-मयष्ठको वर्गाद्याप्तौ स-ठान्तिमः । मुकुष्ठः स्याद्, धान्यभेदे कुल्माषश्च कुल्मासवत् ॥२५५॥ जघन्यवीहौ श्यामाकः श्यामकः पीततण्डुला । कङ्गु-क्व ङ्घ कङ्गुनी च कङ्कुश्च, कोरदूषके ॥२५६॥ कोद्रवः कुद्रवोऽप्युक्तः, युगन्ध- तु योनलः । जोन्नाला यवनालश्च, जूर्णा जूर्णिः शणः सणः ॥२५७|| भङ्गायाम्, गवेधुकायां गवधुिका गवेधुवत् । गवेडुश्च, तिलात्पिञ्जपेजौ षण्ढतिले युभौ ॥ २५८ ॥ कदम्बके सरिषपः सर्षपः, सस्यशीर्षके । कविशं कणिशोऽफलकाण्डे पल-पलालको ॥२५९॥ कडङ्गरे वुसवुषौ, मेघनादे स्मृतावुभौ । तण्डुलीयस्तण्डुलेरस्तण्डुलीशाकभिद्यहो ॥ २६० ॥ मारिषं मारुषम्, बिम्ब्यां स्यात्तुण्डी तुण्डिकेरिका । तुण्डिका तुण्डिकेरी च, मधुस्रवायां तु जीवनी ॥२६१॥
"Aho Shrut Gyanam"