________________
चतुर्थः काण्डः । मरुन्मालाऽप्यथ वृद्धदारके इक्षगन्धया । इक्षुगन्धा छागलात्री छगली तद्वदात्र्यपि ॥२२९॥ दन्त्यां मकूलक-मुकूलौ रक्ताङ्गके पुनः । स्यात्कम्पिल्लश्च काम्पिल्लः काम्पिल्योऽपि कम्पीलवत् २३० रोचनी रेचनी बलभद्रिका त्रायमाणिका । त्रायन्ता, रास्नायां रस्या रसना रसनं रसा ॥२३१॥ मांसिगन्धद्रव्ये मिषी मिसिश्च जटिला जटा । जनातिगन्धद्रव्येषु स्याज्जनी जननी जनिः ॥२३२।। जतूका जतोः का-कार्यो जतुकृञ्चातिविषा पुनः । विधी विषा प्रत्युपाभ्यां त्रिवृति त्रिवृता स्मृता ॥२३॥ त्रिपुटी त्रिपुटा प्रोक्ता रोचनी रेचनीयुता । शतवीर्यायां तु शतावरी चेन्दीवरी वरी ॥२३४॥ सहदेव्यां सहदेवः सहदेविश्च कथ्यते ।। मञ्जिष्ठा वर्गद्वितीययुग् भण्डीरी च भण्डिरी ॥२३५॥ भाण्डीरी भण्डी विकसा विकषा कालमेश्यपि । कालमेषी चविकायां चविकं चवनं तथा ॥२३६।। चव्यं चव्याऽप्यथ तण्डुलायां तु तण्डुलः । तन्तुलोऽपि विडङ्गं च विलङ्गं गन्धमूलिका ॥२३७॥ शटी घटी च कर्जूरः कर्चुरोऽप्यथ क्षीरिणी । हिमावती हिमवती स्थिरायां शालपर्णिका ॥२३८॥ दन्त्य-तालव्याद्याथाखुपा चित्रोपचित्रया । ऐलवालुके वेलेयं वालुकं हरिवालुकम् ॥२३५॥
"Aho Shrut Gyanam"