________________
६२
शब्दरत्नाकरेपत्रं पात्रं पतत्रं च छादनं छदनं छदः । सन्तं छदोऽस्त्री चादन्तः, नवेऽस्मिन् किसलं स्मृतम्॥१३१॥ किसलयं द्वयं दन्त्यं, पुष्पे सुमनसः स्त्रियाम् । भूम्नि सुमना ऐक्येऽपि प्रसूनं सून-सूनके ॥ १३२ ॥ प्रसूतकं प्रसूतं च प्रफुल्लं फुल्लवत् सुमम् । कुसुमं, कलिकायां तु कलिः स्यात्कोर-कोरकौ ॥१३३॥ कुड्मले कुद्मलं तद्वत् कुष्मलं कुमलं तथा । मुकुलं मकुरं प्रोक्तं मुकुरं, बकुलद्रुमे ॥ १३४ ॥ कुलालदण्डे कोरको दर्पणेऽपि च कोशवत् । कोषो द्वौ च कषे दिव्ये रैवये योनिशिम्बयोः ॥१३५॥ जातीकोशे सिपिधानेऽण्डकोऽपि स्तबके पुनः। गुत्सो गुच्छो गुलुम्बुश्च गुलुच्छुः सगुलुच्छकः ॥१३६॥ गुच्छको गुञ्छको गुञ्छो गुलुञ्छोऽस्त्री, रसे पुनः ।। पौष्पे मकरन्दः ख्यातो मकलन्दो मकरन्दवत् ॥१३७|| प्रबुद्धे प्रफुल्ल-फुल्ले संफुल्लोत्फुल्लके स्फुटम् । स्फटितं सव्याकोशं च व्याकोषं स्यात् फले पुनः॥१३८॥ शस्यं तालव्य-दन्त्यादि वानावाने तु शुष्कके। ग्रन्थौ पकः षण्डं सन्तं पसश्च बीजकोशिका ॥१३९॥ शिम्बा सिम्बायुता शिम्बिः शमी शिमिश्च पिप्पली । पिप्पलः पिप्परी बोधिः स्याद् बोधिद्रुम इत्यपि ॥१४॥ स्यादश्वत्थे च, प्लक्षे तु पर्कटी नन्त-ड्यन्तगः । जटी नन्तो जटी ड्यन्तो भवेज्जटिरिदन्तकः ॥१४॥
"Aho Shrut Gyanam"