________________
चतुर्थः काण्डः। न्यग्रोधे तु वटो वट्या वटं जन्तुफले पुनः । उदुम्बरोडुम्बरौ द्वौ मलयूर्जघनेफला ॥१४२॥ मलयुः, सहकारेऽम्र आम्रोऽपि शिग्रुके स्मृतः। दन्त्य-तालव्यादिः शालाञ्जनोऽक्षीव आक्षीववत् ॥१४३॥ पुन्नागे केशरो दन्त्य-तालव्यमध्यः केशवः । बकुले केशरस्तद्वत् केसरः सिंहकेसरः ॥१४॥ मालूरे बिल्वो बिल्वी च, पर्णगुच्छे कुरण्टकः । कुरुण्टक-कुरण्डकौ किंकरातवदीरितः ॥ १४५ ॥ किंकिराटः, पलाशे तु दन्त्य-तालव्यमध्यगः । किंसुकस्तृणराजे तु तलस्तालश्च तद्भिदि ॥१४६॥ तालि-ताडी, देवताडे देवताडी खरागरी । खरागी समे प्रोक्ते अगरीवद् गिरागरी ॥१४७॥ मोचायां तु रम्भा रम्भः कदलिः कदलोऽपि च । कन्दलस्त्रिषु वारणवुषा बुषा बुसान्विता ॥१४८॥ हयमारे करवीरः कणवीरस्तथा मतः । प्रतिहासः प्रतीहासः स्याद् गिरिमल्लिका कुटः ॥१४९॥ कौटजः कुटजः कोटी, तत्फले विन्द्र-भद्रतः । यवं कलिङ्गं कलिङ्गा, वेतसे वेतसी रथः ॥१५॥ रथाभ्रपुष्पोऽभ्रपुष्पः, कौलौ तु बदरी भवेत् । बदरिस्तथा कर्कन्धुः कर्कन्धूः कर्कुन्धुवत् ॥१५१॥ कर्कुन्धूघुट्टा घोण्टा च गोपघोण्टातने भवा । नीपे कदम्ब-कलम्बौ शालस्तालव्य-दन्त्यवान् ॥१५२॥
"Aho Shrut Gyanam"