________________
६१
चतुर्थः काण्डः । वातूलो वातुलो वातसमूहेऽथासहेऽपि च ।। वातविकारस्याऽरण्ये षण्डं शण्डं वनं बनी ॥ १२० ॥ सत्रं तालव्य-दन्त्यादि दवो दावोऽटव्यटविः । चुरुम्बः सतुरुम्बश्वारामेऽपोपात्परं वनम् ॥ १२१ ॥ राज्ञामन्तःपुरोद्याने प्रमदा-प्रमदाद् वनम् । वृक्षे द्रुमो विद्रुमो द्रुः कुठिः कुण्ठोहिपोऽङ्घ्रिपः॥१२२॥ शालस्तालव्य-दन्त्यादिः शिखी शाख्यगमोऽगवत् । पारिन्दश्चापि पालिन्दो गाथकेऽपि दलान्विते ॥ १२३ ॥ पर्णलः पर्णिलो वृक्षे स्थाने वृक्षैर्वृतान्तरे । निकुञ्ज-कुञ्जौ जरुट-जरुडौ च, वनस्पती ॥१२४॥ फलाप्तवृक्षे फलवान् फलिनश्च फली तथा । फलपाकावसानायामौषध्यौषधिरोषधी ॥ १२५ ॥ क्षुपो हुस्वशिफाशाखे क्षुपको, व्रततिर्लता । प्रततिव्रतती तद् वल्लि-बल्ल्यौ च वेल्लिवत् ॥१२६॥ प्ररोहे रोहेऽप्यङ्क्राङ्कुरौ शाखा शिखा लता । स्कन्धशाखा शाला साला जटा जटिः शिफा शिफः॥१२७॥ मूले वृक्षस्य बुध्नः स्याद् व्रनोऽहिर िसंयुतः। मज्जा नान्तो ना मज्जाबन्ता सारेऽथ वल्लिका ॥१२८॥ लचस्त्वचा त्वक् च चोचं शल्कं वल्कं च वल्कलम् । शकलं वल्के शल्के वर्धेऽपि शल्कं शकलेऽपि ॥१२९॥ कोटरे निक्कुटः प्रोक्तो निष्कहो, वल्लरौ पुनः । वल्लरी मञ्जरी मञ्जा मञ्जरिश्चापि, पर्णके ॥ १३० ॥
"Aho Shrut Gyanam"