________________
६०
शब्दरत्नाकरेक्षुद्रे चुरिश्चुरी चुण्ढिश्चुण्ढी च घटीयन्त्रके । उद्घाटकमुद्घाटनमुहातनमपि स्मृतम् ॥ १०९ ॥ कासारे तु तडागः स्यात् तडाकश्च तटाकवत् । सरः-सरस्यौ स्थानकेऽलवालं चालवालयुक्॥ ११ ॥ आवालोऽस्त्री, उत्स उत्सुः स्रवः प्रस्रवणं झरः । झरी झरा निर्झरश्व, वह्नावग्निस्तु पुं-स्त्रियोः ॥ १११॥ दमुना दमूना सन्ता वञ्चतिश्चाङ्कतिस्तथा । शुष्मा बहिर्बर्हिः शुष्मा नान्तः शुष्मोऽस्त्यदन्तकः॥११॥ आश्रयाश आशयाश विश्वप्सा नान्तगो मतः । विश्वप्सोऽपि, नान्तो दान्तः शन्त्रतोऽपि तनूनपात्॥११३॥ घासिर्घसुरिहवनो हविश्व द्वौ बनात्परौ । दवो दावो, हेतौ कीला कीलो ज्वालो पि ज्वालया||११| अर्चिरर्ची सन्तेदन्तावूष्मा नान्तः सहोष्मया। बाष्पे,तडिति शम्पा स्यात् सम्पा शम्बा च विद्युता॥११५॥ विद्युत् सौदामिनी सौदामनी सौदाम्निकान्विता। सौदाम्नी च सुदाम्नी वा चपला चवला चला ॥११६॥ आकालिकी चाकालिका, वायौ मरुत-मारुतौ । मरुत् समीर-समरौ सृमरोऽप्यनलाऽनिलौ ॥ ११७ ॥ जगत्प्राणो-जगत्प्राणौ गन्धाद् वाहि-वाह-वहाः। वातिर्वातो भवेत् सारो दन्त्य-तालव्यपूर्वगः ॥११॥ शबलवर्णेऽपि सरट्-सरडौ टान्त-डान्तगौ । लघट् च लघिटिः पविः पवनः पवमानवत् ॥११९॥
"Aho Shrut Gyanam"