________________
चतुर्थः काण्डः। लहरी लहरिः, फेने डिण्डीरः सहिण्डीरकः । पिण्डीर-दिण्डीरौ तट्यां तटं तटः प्रतीरवत् ॥९८॥ तीरं रोधोऽदन्तः पुंसि रोधः सान्तं नपुंसके । जलोज्झितेऽस्मिन् पुलिनं पुरिनं सैकतं तथा ॥९९॥ सिकता, नयां हदिनी हादिनी च धुनी धुनिः । आपगाऽथाप्यपगा श्रोतो दन्त्य-तालव्यगादिमम्॥१०॥ स्रोतस्विनी स्रोतस्वती स्रोतोवहा स्रवन्तिका । द्रवन्त्योषधिभेदेऽप्यम् भवेतां च, गोदया ॥१०॥ गोदावरी, सूर्यात्मजा तापिस्तापी शतद्रुयुक् । शुतुद्रिः शुतुद्रुरपि शितद्रुः सरयूयुता ॥१०२॥ सरयुः कोसलानद्यां, नदीभेदे तु चन्द्रिका । चन्द्रभागा चन्द्रभागी भागी चान्द्राच्च भागया॥१०३शा वासिष्ठयां गोमती तद्वत् गोतमी स्याद् विपाड्युता । विपाशोक्ता, वैतरणी वैतरणिरवन्तिगा ॥ १०४ ॥ सिप्रा सृप्रापि, स्वतोऽम्भःसरणे श्रोत उच्यते । दन्त्य-तालव्ययुग् देहसिरास्वपि प्रवाहके ॥ १०५ ।। वेणिर्वेणीवकं वकं पुटभेदेऽम्बुनिर्गमे ।। परिवाह-परीवाही नाल-नादौ प्रनालिका ॥ १०६ ।। प्रणालः प्रणालं तोयमार्गे सरणिः सारणी । कुल्यायां, सिकतायां तु वालुका वालिकापि च॥१०७॥ बिन्दौ पृषतिः पृषतः पृषत् , पङ्के तु कर्दमः। दमोऽपि, दीर्घिकायां तु वापिर्वापी च कूपके ॥१०८॥
"Aho Shrut Gyanam"