________________
शब्दरत्नाकरे
वैडूर्यमपीन्द्रनीले महानीलं तथापरौ ।
,
पनिकः पदिकश्चापीन्द्रकीलेऽपि वज्रके ॥ ८७ ॥ हीरच हीरको, राजपट्टे प्रोक्तो विराटजः । वैराटोsपि चन्द्रकान्ते चान्द्रोऽपि स्फटिके मतम् ॥८८॥ स्फाटिकं च, शुक्तिजे तु मुक्ता मुक्ताफलान्विता । मौक्तिकं च मकुतिकं भवेद मुकुतिकं तथा ॥ ८९ ॥ वणिद्रव्येऽपि पानीये जीवनीयं च जीवनम् । नीरं नारं मीरं वा स्त्री-क्लीबयोर्वारि वार्दरे ॥ ९० ॥ उदको दक- दगे कबन्धं बन्ध-मन्धके । कमन्धमापः स्त्री भूम्नि आपः सन्त स्त्र्युत्सूत्सकौ ॥९१॥ शम्बरं दन्त-तालव्यादिमं स्याच्छवरः शिवम् | कृपीटं कृषीटमलं कमलं च शरं सरः ॥९२॥ सन्तं सारं दुमलं च द्रुमलं भुवनं वनम् । जलं जडं च सलिरं सरिलं सलिरं तथा ॥९३॥ सरिरं, त्रिपकारं च पिप्पलं स्यादगाधके । अस्थाघमस्ताघा-ऽस्तागे गम्भीरं च गभीरवत् ॥९४॥ निम्ने चलागाधयोध, धूमिका धूमरी हिमे । धूममहिष्यथाऽवश्याऽवश्यायौ, वारिधौ पुनः ॥९५॥ वार्डिर्वारिनिधिरुत्सोत्सू अपपतिरप्पतिः । यादसांपतिश्च यादःपतिश्चाप्यकूपारवत् ||१६|| अकूवारः पारापारः पारावारोऽपि कथ्यते । अवारपारस्तरङ्गे भङ्गो भङ्गं महत्पथम् ॥९७॥
५८
3
"Aho Shrut Gyanam"