________________
५३
चतुर्थः काण्डः । स्वतितः पन्थाः, अपथमपन्था गूढवद्मनि । भूमध्ये तु ड्युकाराप्ता दन्त-तालव्यपूर्वगा ॥ ३२ ॥ शुरुङ्गा सन्धिला सन्धिः, स्थाने तु पदमास्पदम् । पितृ-प्रेताहन-गृहे, धिष्ण्ये सदन-सादने ॥ ३३ ॥ गृहं गेहं धाम धामं मन्दिरं मन्दिरा कुटिः। कुटः कुट्योकः सान्तं षण् पुंस्योकोऽदन्त उच्यते॥३४॥ सत्रं सार्च वस्त्यं पस्त्यं निवासा-ऽऽवास-वासकाः । आवसथो वसितश्चोदवसितं न्याङ्युग् लयः ॥ ३५॥ निकाय्य-निकायौ स्यातां स्यादागारमगारवत् । चतुःशाले चातुःसाली जवनं यवनं समः ॥ ३६ ॥ यमनं चोपकाऱ्यांवदुपकार्योपकारिका ।। प्रसादनः प्रसादोऽपि देव-भूपगृहे समौ ॥ ३७॥ मठस्त्रिष्वावसथ्यश्चावसथः स्तूप-तूपको । आयतनविशेषेऽथो मृतचैत्ये तु चैत्रवत् ॥ ३८ ॥ चित्यं च, हविगैहे तु होत्रं होत्रीयवस्मृता । आथर्वणे शान्तिगृहं शान्तीगृहं, तृणालये ॥ ३९ ॥ कुटी कुटि-कुडी तुल्ये, सूतका सूतिका परम् । गृहं त्वरिष्टे, कारूणां कर्मशालाऽनुवासनम् ॥ ४० ॥ अन्वासनमावेशनं, भिल्लसद्मनि पकणः । द्विककारोऽस्त्रियां, हट्टेऽट्टोऽस्त्रियां विपणिः स्त्रियाम्॥४१॥ विपणी चाऽऽपणो, वेश्याश्रये वेशः सवेषकः । भित्तौ स्याद्भित्तिका कुड्य-कुट्ये अत्र तृतीयकौ॥४२॥
"Aho Shrut Gyanam"