________________
चतुर्थः काण्डः । वस्तकं स्याद्, विड-विटी पाक्ये, टङ्कस्तु टङ्कणे ॥१०॥ टङ्कनः पाचनकश्च पाचनस्तुग्घिका पुनः ।
जिः स्यात् खर्जिका देशे, विशयी विषयी तथा॥११॥ विषयः पुंस्त्रियोर्नीवृ?पोपातस्तु वर्तनम् । जाङ्गलो निर्जले देशे जाङ्गलो जडभूयसि ॥ १२ ॥ नडकीयो नडलश्च नडांश्च, बहुशर्करे । शर्करा शर्करिलोऽपि शर्करावांश्च शार्करः ॥ १३ ॥ सिकता-वालुकाप्राये स्याद् सिकतिल-सैकतौ । सिकतावान् , साखायः शाखिनेडाहाल-डालाः ॥१४॥ डहालाश्चेदयश्चैद्याः, साल्वाः सल्वा अपि स्मृताः । वालिका-वालि-वाहीकाः, पाञ्चालाः स्युः पञ्चालवत्॥१५॥ कुङ्कणः कौङ्कणोऽप्युक्तो, द्रविडो द्रमिडोऽपि च । ग्रामे तु बसथः सं-न्यु-प-प्रति-परितः परः ॥ १६ ॥ पल्लि-पल्ल्यौ गृह-गृहसमूह-स्थानकेष्वपि । सीम-सिमौ क्षेत्र-सीम-गोचर-भू-हयेष्वपि ॥ १७ ॥ मर्यादा घट आघाटः स्थविः स्थिविश्च सीमया । सीमः सीमा त्रिषु नान्तो मालं नामान्तराटविः ॥१८॥ मालकोऽपि भवेत्क्षेत्रे वप्रो वप्यश्च संमतः । शाकक्षेत्रे स्तृत शाकं शाकटं शाकशाकिनम् ॥ १९ ॥ अणुक्षेत्रे चाणवीनमणव्यमपि, भङ्गवत् । भाङ्गीनं च भङ्गाक्षेत्रे, उमाक्षेत्रे तथोम्यवत् ॥ २० ॥ ५ उपवर्ननम् , उपावर्तनं चेत्यर्थः ।
"Aho Shrut Gyanam"