________________
अथ चतुर्थः काण्डः ।
धात्र्यां भू-भूमि-भूम्यः स्युः पृथवी पृथिवी पृथा । धरित्री धरयित्री वसुधा सुधा वसुन्धरा ॥ १ ॥ विश्वा विश्वम्भरा क्षोणिः क्षोणी तहद् महिर्मही । जगतिर्जगत्युर्वरोर्विरूवीं ग्मा क्ष्मा क्षमा ॥ २ ॥ अवन्यवनिर्धरणी धरणिर्धारया धरा ।
केलिश्च केलिनी ख्याता महास्थल्यम्बरस्थली ॥ ३ ॥ दीर्घादय ईडेलेराश्च विडीडो डान्तगौ मतौ । अदन्ताविड ईडश्च देवभिद्यपि तौ स्मृतौ ॥ ४ ॥ इडेले सर्ग-नाडी-गो-बुध-स्त्री-वाक्ष्वपीरिते । द्यावाभूम्योस्तु रोदस्यौ रोदसी रोदसी तथा ॥ ५ ॥ आद्यो ङयन्त इदन्तोऽन्यस्तृतीयः सान्तषण्ढगः । द्यावापृथिव्यौ च दिवस्पृथिव्यौ च तथोदिते ॥ ६ ॥ दिवः पृथिव्यौ च क्षारभूम्यामुपरमूषरम् । इरिणवदीरिणं, भूः कृत्रिमोच्चा स्थला स्थलम् ॥ ७ ॥ मृद् मृत्तिकाऽपि सा शस्ता मृत्सा मृस्नाऽपि खानिका लवणस्य रुमा नान्ता रुमाऽऽबन्तापि कथ्यते ॥ ८ ॥ वशिरो वसिरश्वाऽपि सामुद्रलवणे मतौ ।
3
सैन्धवे दन्त- तालव्यादिमं सीतशिवं स्मृतम् ॥ ९ ॥ माणिमन्थं माणिबन्धं रौमके, वसुकं वसु ।
"Aho Shrut Gyanam"
3