________________
तृतीयः काण्डः ।
नान्तादन्ते तु इध्मेध्मे रक्षाभस्मनि क्षारवत् ॥३०२॥ स्रुवे , मखवधे तु शसनं शमनं समे । शृतोष्णक्षीरगे दधिन आमीक्षाऽमिक्षया सह ॥३०३॥ दधिषाज्य-दीधीषाज्यौ दधियुक्तघृते मतौ । मृषावादिन्यपि चाग्निहोत्रिण्यग्न्याहितो भवेत् ॥ ३०४॥ आहिताग्निर्दविर्दी घृतलेखनिकोच्यते । आचमने तूपस्पर्श उपसंस्पर्शनं तथा ॥ ३०५ ॥ उपसंस्पर्शः, पाठे तु निपाठ-निपठौ समौ । स्वाध्याये जपो जाप उपवास उपोषितम् ॥३०६॥ अपवस्त्रमुपवस्त्रमौपवस्त्रोपवस्त्रके । वृत्ते चरित्रं चारित्रमाचार-चरणे अपि ॥३०७॥ चरितं, प्राचेतसे तु वाल्मीकिर्वल्मीकयुक् । वाल्मीक-वाल्मिकौ तद्वत् कविरादिकविस्तथा ॥३०८॥ मैत्रावरूणिः समैत्रावरूणो, बादरायणे । वेदव्यासश्च व्यासः, स्याद् रामः परशुरामवत् ॥३०९॥ जामदग्न्यो, याज्ञवल्क्यो योगेशः सयोगीशकः । वशिष्ठो दन्त-तालव्यमध्यो, वर्गद्वितीययुक् ॥ ३१०॥ गोनीयमुनौ तुल्यौ पतञ्जलि-पतञ्जलौ । वररुचौ कात्यायन-कात्यौ, कक्षीवति स्मृतः ॥३११॥ स्फोटायनः स्फौटायनः, पालकाव्ये करेणुभूः । कारेणवो मुनिभेदे स्यादत्तिरत्रिणा समम् ॥३१२॥ अपिशलिरापिशलिः कशात् कृत्स्नः सकृत्सकः ।
"Aho Shrut Gyanam"