________________
शब्दरत्नाकरे
मृकण्डुवद् मृकण्डच, हारीतो हारितोऽपि च ॥ ३१३॥ पक्षिभेदेऽपि, कुमारः कुमारिलसमन्वितः । नास्तिके लोकायतिको लोकायतिक इत्यपि ॥ ३१४॥ बाहुसंभवे राजन्यो राजा च क्षत्र-क्षत्रियौ | आर्ये विड्-वैश्य वेतने वृत्तिर्वार्तापि जीविका ॥३१५॥ ऋते तूञ्छं शिलञ्चोञ्छं शिलोञ्छं शिलवत्तथा । कृषौ प्रमृतमनृतं वाणिज्यं वणिकर्मणि ॥ ३१६ || वणिज्या वणिज्यं क्रयविक्रयिके तु वाणिजः । वणिक् प्रापणिकः प्रोक्त आङ्पराः पणिकस्तथा ॥३१७॥ पनिकः पतिकचैव पदिकः, कायके पुनः । कायिको विकायके च ऋयिको विक्रयी तथा ॥ ३१८|| मूल्ये वयाऽवक्रयौ मूलद्रव्ये तु नीविवत् । नीवी स्यात्तु विनिमयो नैमेयो निमयोऽपि च ॥३१९॥ वैमेयोऽपि परदाने व्यवहारे पणं पणः । न्यासार्पणे प्रतिदानं परिदानं, सत्यापने ॥ ३२० ॥ सत्यङ्कारः सत्याकृतिः, संख्येये तु गणेयवत् । गण्यं, पोते प्रवहणं वहनं वहितं तथा ॥३२१|| वहित्रं वाहित्यमपि, पोतवाहे नियामकः । निर्यामोऽपि च बेडायां स्तरणिस्तरणी तरिः || ३२२॥ तरी स्तरी च काष्ठाम्बुवाहिन्यां दुणिवद् द्रुणीः । द्रोणिर्द्राणी च नौदण्डे क्षेपणिः क्षेपणीयुता ॥ ३२३ ॥ काष्ठकुद्दालेऽविरश्री, लवे स्यादुडुबो डुवः ।
४६
-
"Aho Shrut Gyanam"