________________
शब्दरत्नाकरेसांपरायः संपरायकमग्रगमने मतम् ॥२९॥ नासीरस्त्रिषु, धाटौ तु धाट्यवस्कन्द इत्यपि । अभ्यवस्कन्दः, सौप्तिके त्ववापात् स्कन्द उच्यते ।।२९२|| पलायने तु संदावः समुत्प्रेभ्यश्च द्राववत् । द्रववद् विद्रवो, भग्ने पराजित-जितौ समौ ॥२९३॥ भूतः परापर्यभितो, गुप्तौ तु चार-चारकौ । बन्द्यां ग्रहश्च ग्रहकः प्रोपतो ग्रह इष्यते ॥ २९४ ।। संन्यासिके तापसः स्यात् तपस्ख्यपि च सूरतः । सूरथोऽपि च दाने हौ शान्त-श्रान्तौ जितेन्द्रिये ॥२९५|| शुद्धकर्माऽवापाद् दानं महादाने प्रवारणम् । वरणं, विप्रे ब्रह्मा स्याद् ब्रह्माणो जाति-जन्म-जाः॥२९६|| घ्यग्राभ्यां, बटौ माणवो माणवकस्तथैव च । मौजीबन्धे तूपापाद् नाय-नयावानय इत्यपि ॥२९७॥ अमीन्धने स्यादाग्नीध्राग्नीध्यो स्यातां जटाजटिः । सटायां, तपस्विपीठे वृषी वृसी, कमण्डलौ ॥ २९८ ॥ कुण्डं कुण्डी कुण्डिका च, यजमाने तु याजकः । यष्टाऽथ सोमपेसोमा सोमात्पीती पीथी च नान्तगौ॥२९९॥ सर्ववेदः-सर्ववेदौ सान्ताऽदन्तौ तु याजके । सर्वस्वदक्षणेष्टेश्च, हुतौ होम नपुंसकम् ॥ ३०० ॥ नान्तं, होमो नरेऽदन्तो होत्रं, भूमिः परिष्कृता । वेदिर्वेदी च, निर्मन्थदारुणि त्वरणियोः॥ ३०१ ॥ अरणी समिधि त्वेध एधः सान्तं तथेन्धनम् ।
"Aho Shrut Gyanam"