________________
तृतीयः काण्डः ।
करपालिकाऽपि तरवालिकाऽपि च, कुन्तके ॥२८॥ प्रासस्तालव्य-दन्त्यान्तो, मुद्गरे दुघणो धनः । द्रुधनः, कुठारे पशुः परशुश्च परस्वधः ॥ २८१ ॥ पर्श्वधः परश्वधश्च स्वधितिः, परितो धके । पलिघो दन्त्य-तालव्यौ शवली शर्वला युधि ॥२८२॥ लोहदण्डे पट्टिशः स्याद् दन्त्य-तालव्यप्रान्तगः । अभ्यासभुवि खडूरः खलूरश्च खलूरिका ॥ २८३ ॥ प्रस्थाने त्वभिनिर्याणं प्रयाणं खलु हेतवे । तृणकाष्ठादेः, प्रसृतौ प्रसरणा प्रसारणी ॥ २८४ ॥ प्रसारश्च प्रसरणं, वैरिणः प्रति गच्छति । अभ्यमित्र्योऽभिमित्रीयोऽभ्यमित्रीणो, बलान्विते॥२८५।। उरस्वान् स्यादुरसिलोऽप्यतिबले ऊर्जस्वलः । ऊर्जस्वप्यूर्जखांश्च जिष्णो जेता च जैत्रवत् ॥२८६॥ जित्वरो, वैतालिके तु सौखशायनिको मतः । सौख्यशय्यिकश्चाक्रिके धाण्टिको घाटिकोऽपि च॥२८७|| मागधो मगधो मले वैश्यात् क्षत्र्यां भवेऽपि च । छन्दोजातावुष्णिहोष्णिम् बले शुष्मं तु शुष्मणा ॥२८८॥ ऊर्ज ऊों गूर्जः सान्तं क्लीबं च सहसा सहः । संग्रामे युद्ध युत् संयत् पुंस्त्रियोश्च संयद्वरः ॥ २८९ ॥ संयतं राटी रालिर्ना समितिः समितः समित् । समः स्फोट-स्फेट-फेटाः प्रध्मश्च प्रधनं तथा ॥२९॥ समुदायः समुदयः सांपरायकमित्यपि ।
"Aho Shrut Gyanam"