________________
शब्दरत्नाकरेकञ्चुके वारबाणः स्याद् बाणवारो धियाङ्गवत् ॥२६॥ अधियाङ्गमधिकाङ्गं सारसने त्रयं स्मृतम् ।। शिरस्त्राणे तु शीर्षण्यं शीर्षकं, शस्त्रजीवनि ॥२७॥ आयुधीयश्चायुधिको भवेत् परश्वधायुधे । पारश्वधिकवत् पारश्वधः, प्रहरणेऽस्त्रवत् ॥२७१।। शस्त्रं, चापे धन्व धन्वं पुक्लीबो धनुवद्धनुः । धनूः स्त्रियां त्रिणतावत् तृणता धनुषोऽग्रके ॥२७२।। अटन्यटनिरानी पीडायामपि स्यात्तलम् । तला चाऽपि गोधायां स्याद् वेध्ये लक्ष्यं सलक्षकम्॥२७३॥ बाणे पृषकस्तात्कान्तः सायकः सायवत्सरः । शरः शरुः स्वरुर्भल्लो भल्लिश्चापि कडम्बयुक्॥२७४॥ कलम्ब इव कादम्बो भेर-भेलावमू तथा । भेकेऽपि, कर्तरिः पुले कर्तरी, शरधौ पुनः ॥२७५॥ तूणी तूणा तूणं तूणस्तूणीरश्च निषङ्गवत् । उपासङ्गोऽपि खड्गे तु ऋष्टि-रिष्टी नरस्त्रियोः॥२७६॥ करवालः करपालः करालिकस्तथोदितः । चन्द्रहासश्चन्द्रभासो धारान्तोगो धरोऽपि च ॥२७७॥ प्रत्याकारे कोश-कोषावावरणे फरं स्फरम् । स्फरः स्फरकः फरकः फलकं फलमित्यपि ॥२७८॥ खेटकः खेटकं खेटं, कृपाणिका छुरी क्षुरी । क्षुरिका साऽऽयता पत्रात्पालः स्यात्पालिकाऽपि च॥२७९॥ एकधारासौ स्यादीली इली च करवालिका ।
"Aho Shrut Gyanam"