________________
तृतीयः काण्डः। अवात्परौ क्रीडार्थे तु रथे पुष्परथो मतः ॥ २५८ ॥ मूईन्यान्तस्थायोगाप्तो, भवेत् कर्णीरथे पुनः । डयनं हयनं चाप्यनसि स्याच्छकटस्तथा ॥ २५९ ॥ शकटी शकटं तद्वच्छकटिर्वहसाऽन्वितः । वाहसो वृषभेऽप्येतो, प्रधौ नेमी च नेमिवत् ॥२६॥ अक्षाग्रकीले त्वण्यानी अस्नि-सीम्नोरपि स्मृतौ । पिण्डिकायां नाभिर्नाभी, कूबरं स्याद् युगन्धरे ॥२६॥ कुबरं चाधास्थदारावनुकर्षा नरि नान्तगः । अनुकर्षोऽस्त्यदन्तोऽपि धूर्वीवद् धूधुराऽपि च ॥२६२॥ यानमुखेऽथ दोलायां प्रेङ्खः प्रेङ्खा, विनीतकम् । वैनीतकं, परम्परावाहने शिबिकादिके ॥२६३॥ याने तु वा वाह्यं च वहनं वाहनं तथा । सारथौ वर्म्यद्वादश ऋकाराकारयुक् त्विह ॥२६४॥ सव्येतः पृष्ठ-ठातारौ दक्षिणात् स्थश्च संस्थवत् । रथवति त्रयोऽप्येते रथिको रथिरो रथी ॥२६५।। अश्ववारे सादिः सादी रथिकेऽप्यमू यन्तरि । निषादी सनिषादिश्व, भटे योद्धा सयोधकः ॥२६६॥ तथा भण्डीर-भाण्डीरौ बनेऽपि कथितावमू । सेनासमवेते सैन्यः सैनिकोऽपि च, योद्धृपु ॥२६७॥ सहस्रेण साहस्रिणः साहस्रः, प्रतिमुक्तवत् । स्थादामुक्तो पिनद्धश्च पिनद्धे, कवचे पुनः ॥ २६८ ।। मांढिर्माढा दशनं च दंशस्त्वक्त्रं तनुत्रवत ।
"Aho Shrut Gyanam"