________________
३६
शब्दरत्नाकरे
कुङ्कमे वरवाहीकं वरं वाहीक-वाहिके । कश्मीरजन्म काश्मीरं कश्मीरजमपि स्मृतम् ॥ २०४॥ संकोचपिशुनं तद्वत्संकोचं पिशुनं समे। वर्ण वर्ण्य, देवसुमे लवङ्ग लवसंयुतम् ॥ २०५ ।। कोशफले ककोलकं ककोलं कोलकं तथा । कोलं कोरं च, कालानुसार्ये यापक-जापके ।। २०६ ॥ कालीयकं कालेयकं कालियं चाऽग्निवल्लभे। . रालोऽक्ष्यरालः, श्रीवासे धूपः स्याद् वृक-वृक्षतः।।२०७॥ श्रीवेष्टः श्रीपिष्टकश्च, कोटीरे मुकुटोऽस्त्रियाम् । मकुटोऽपि किरीटं स्यात् तिरीटं पुष्पदाम तु ॥२०८॥ नान्तः क्लीनोराबन्तोऽस्मिन् मुण्डमालाभिधे स्मृतम् । ललामवल्ललामाऽश्व-प्रधान-ध्वज-लक्ष्मसु ॥ २०९ ॥ पुण्डू-बालधि-शृङ्गेषु भूषा-प्रभावयोरपि ।। माल्यं माला, तिलके तमालपत्रं तमालवत् ॥ २१० ॥ शीर्षस्रज्यवतंसः स्याद् वसन्तोत्तंसकौ समौ । त्रयोऽमी कर्णपूरेऽपि पत्रावल्यां तु पत्रतः ॥ २११ ॥ भङ्गि-लेखा-लताङ्गुल्यो वल्लरी मञ्जरीति च । वल्लिश्वोत्क्षिप्तकायां तु कर्णान्दूश्च कर्णान्दुयुक् ॥२१२॥ कण्ठभूषायां ग्रैवेयं ग्रैवं ग्रैवेयकं तथा । मुक्तास्रज्याहारो हारः स्त्रीत्रोर्यष्टयां सरिः सरः॥ २१३ ।। सारिकाऽप्येकावल्यां तु कण्ठी कण्ठिकया सह । १ पत्रभङ्गिः, पत्रलेखा, पत्रलता, पत्राङ्गुलिश्चेत्यर्थः ।
"Aho Shrut Gyanam"