________________
तृतीयः काण्डः । कटिके तु पारिहार्यःपरिहार्यश्च कङ्कणम् ॥ २१४ ॥ कङ्कणिशर्मिकायां त्वङ्गुलीयकाङ्गुरीयके ।। मेखलायां सारसनं दन्त्य-तालव्यमध्यगा ॥ २१५ ।। रसना, काञ्चिः काञ्ची च किङ्किणिः क्षुद्रघण्टिका । किङ्कणी कङ्कणीका च कङ्कणी किङ्किणीत्यपि ॥२१६|| समे मञ्जीर-मन्दारे नूपुरे पादतः परे ।। शीली च नालिका पादाङ्गुलीये पादतः परे ॥२१७॥ पालिका कीलिका, वस्त्रे वसनं वस्न-वाससी। सिनो निवसनं सन्नं कर्पटं पटमित्यपि ॥ २१८ ॥ पटः पट्याच्छादनं च छादः सिक्-सिचयो तथा । वस्त्राञ्चले वर्ति-वस्ती दुकूलमतसीपटे ॥ २१९ ॥ दुगूलं, कम्बले रल्लो रल्लकोऽथ निवीतके । प्रावृतं निवृतं, स्थूलशाटे तालव्य-दन्त्यवान् ॥२२०॥ वरासिः, परिधानस्य ग्रन्थौ नीवी च नीवियुक् । चण्डातके चलनकश्चलनचलनिका पुनः ॥ २२१ ॥ चोलोली कञ्चुलिका कञ्चूलः कञ्चुकोऽपि च । कूर्पासकश्च कूर्पासः कुर्पासः सर्पासकः॥ २२२ ॥ शाटके तु शाटः शाटी, परिधानापराञ्चले । कच्छा कच्छाटी च कच्छाटिका, कौपीनके पुनः॥२२३॥ कक्षापटः कक्षापुटः, कर्पटे नक्तको मतः । लक्तकः, प्रच्छदपटे उत्तरच्छद उच्यते ॥ २२४ ॥ निचोलको निचुलको निचोलं च निचोल्यपि ।
"Aho Shrut Gyanam"