________________
तृतीयः काण्डः ।
असृग्धरा सृग्धरा च कषिते लेख्यचर्मणि । कडित्रं सकटित्रं च, स्नायौ वसस्त्रया स्वसा ॥ १९३ ॥ नावा नान्तो, धमन्यां तु धमनिर्नाडि-नाडकौ । नाडी शिरा सिरा नेत्रमले दूषी सदूषिका ॥ १९४ ॥ दुषीका काणुकं काणूक माणूकवदाणुकम् । घ्राणमले शिङ्खाणक - सिङ्घाणौ, लालिका पुनः ॥ १९५ ॥ सृणीका सृणिका गूथो विड- विषौ शान्त-षान्तगौ । वर्चस्क-वर्चसी तुल्ये विष्ठा वर्गद्वितीयभाक् ॥१९६॥ नेपथ्ये वेष- वेशौ द्वावुत्सादनमुहूर्तने । उच्छादनं चापि समालभने चर्चिक्यं मतम् ॥१९७॥ चर्चाऽपि, मण्डने प्रति परितः कर्म कथ्यते ॥
३५
मा मा मृजा मार्जा मार्जना, स्नान आप्लवः॥ १९८ ll आप्लावोऽपि च, गात्रानुलेपन्यां वर्तिरुच्यते । वर्ती तथा जोङ्ग स्यादगर्वगुरु वंशकम् ॥ १९९ ॥ वंशिका वंशिकं कृमिजग्धं कृमिजमित्यपि । प्रवरं प्रकरं तुल्ये गोशीर्षे हरिचन्दनम् ॥ २०० ॥ हरिश्र, रक्तचन्दने पत्रगं च पतङ्गकम् | पत्राङ्ग, सौमनसे तु जातिर्जाती फलं तथा ॥ २०१ ॥ जातीफलं जातिफलं तद्वत्कोशफलं मतम् । जातीकोशं जातीकोषं, कर्पूरे स्यात् सिताम्रकः॥२०२॥ सिताभश्चापि, कस्तूर्थी नाभिवद् मृगनाभिजा । मृगनाभिर्मृगमदो मृगः स्याद् मद इत्यपि ॥ २०३ ॥
"Aho Shrut Gyanam"