________________
शब्दरत्नाकरेत्रिकपार्श्वगर्तयोस्तु कुकुन्दरे कुकुन्दुरे । युतौ स्फिचौ स्फिजौ चान्तौ जान्तौ, स्यात्स्मरमन्दिरे।१८२१ योनिर्योनी च, पुंश्चिह्ने शेपः शेफश्च सान्तगे । शेप-शेफौ च शेवश्च त्रयोऽदन्ता बुधैः स्मृताः ॥१८॥ लागूलं शङ्क लङ्गुलं, मुष्क आण्डाण्डको नरि । अण्डं पेलं पेलकोऽप्यथोरुरूरूश्च सक्थनि ॥ १८४ ॥ जङ्घायां तु टङ्क-टङ्गौ खनित्रेऽपि च तौ मतौ । पादग्रन्थौ कुल्फ-गुल्फो घुटिको घुण्ट-घुण्टकौ ॥१८५।। घुटः सर्वेऽपि पुंस्त्रीगाः, चरणे चलनः क्रमः । क्रमणः पाद-पदौ पात् पत्-पदे अंहिरङ्घ्रियुक्॥१८६॥ तिलके कालकस्तद्वत् तिलकालक इत्यपि । जडुलो जटुलो, मांसे पलं पललमामिषम् ॥१८७॥ अमिषं चार्द्रमांसे तु भवेदर्पशमर्पिशम् । मुख्यमांसे बुक्का नान्तं त्रिषु वुक्कस्त्रिषु स्मृतः ॥१८८॥ वुक्काग्रमांसाग्रमांसे वृक्कः स्यात्पुंस्त्रियोर्वसा । मेदः सान्तं मेदोऽदन्तो मस्तिष्को मस्तुलुङ्गकः ॥१८९॥ मस्तकस्नेहे गोदोऽस्त्री करोटं शिरसोऽस्थनि । करोटीवत् करोटिश्च भकालं च भगालयुक् ॥१९॥ पृष्ठहड्डे कशेरुका कशारुकाऽस्थिसंभवे । मज्जा नन्तो द्वयोर्मज्जाऽऽबन्तः स्त्री त्रि-रेतसी ॥१९१॥ बल-बल्ये च वीर्ये द्वे लोम रोम तनूरुहे । तनुरुहं, चर्म चर्म त्वक् त्वचं चोचमित्यपि ॥१९२॥
"Aho Shrut Gyanam"