________________
तृतीयः काण्डः।
प्रदेशिनी प्रदेशिका, ज्येष्ठाङ्गुल्यां तु मध्यमा । मध्या, ज्येष्ठा-कनिष्ठे वे टवर्गद्वितीयान्विते ॥ १७१ ॥ पुनर्नव-पुनर्भवौ करजे नखरस्त्रिषु । नखोऽस्त्री तर्जन्यायत्तेऽङ्गुष्ठे त्वथ प्रदेशवत् ॥ १७२ ॥ प्रादेशोऽप्यायताङ्गुलौ हस्ते स्यात् प्रतलस्तलः । तालिका-तालौ चपेटश्चर्पटश्वपटोऽपि च ॥ १७३ ॥ तद्वये योजिते सिंहतलः संहतलस्तथा । तताङ्गुष्ठमध्याङ्गुलिमाने तालस्तलोऽपि च ॥ १७४ ॥ वितस्ति-खड्गमुष्टयोश्च, कुब्जिताङ्गुलिके करे । प्रसृतः प्रसृतिश्चापि गण्डूषे चलुकश्चलुः ॥ १७५ ।। चुलुको, निष्कनिष्ठे स्याद् हस्त आर्तिररत्नयुक् । तिर्यक्प्रसारितबाहोायामो व्याम-व्यामनी ॥१७६॥ वियामः, पृष्ठवंशे तु रीढको रीढयुग मतः । पृष्ठं वर्गद्वितीयाप्तमुत्सङ्गे ङ्को नपुंसके ॥ १७७ ।। सान्तमकोऽप्यदन्तो नाऽथोरोजोरसिजौ स्तने । कुच-कूचौ, जठरे तु स्यात् पिचण्डः पिचिण्डयुक्॥१७८॥ तुन्दं तुन्दिः कुक्ष-कुक्षी, यक्नि कालेय-कालके । कालखण्डं कालखञ्ज, गुल्मे प्लीहा प्लिहा तथा ॥१७९॥ नान्तौ, प्लीहा चाबन्तोऽपि, मध्ये मध्यम इत्यपि । विलग्नावलग्नौ सर्वे पुंक्लीबाः, रसनापदे ॥ १८० ॥ कटीरं च कटि-कटी-कटाः श्रोणी च श्रोणियुक् । वलित्रयसमाहारे त्रिवलिस्त्रिवली तथा ॥ १८१ ॥
"Aho Shrut Gyanam"