________________
शब्दरत्नाकरेकालभेदेऽपि भ्रूविकारे भ्र-भु-भू-भृतः कुटिः । भ्रूमध्ये कूर्च-कूपे कूर्प नके नस्नया नसा ॥ १६० ॥ नासा नस्या नासिका च नाशिका घ्राणमाघ्रया । घा, दन्तवस्त्रे ओष्ठः स्यात् त्रिकवर्गद्वितीयवान् ॥१६॥ ओष्ठप्रान्ते सृक्क नान्तं क्लीबं सृक्कमदन्तकम् । सृक्कणी सृणिय॑न्तेदन्ते सृक्कि नपुंसके ॥ १६२ ॥ इदन्तमेकैर्वद्वन्द्वं कयुग्ममपरैः स्मृतम् । सृक्कशब्देऽथ हन्वयसन्धौ स्याच्चिबुकं चिबुः ॥१६३॥ दंष्ट्रिकायां दाढिका स्याद् द्राढिका खादने पुनः । रदनो रदयुग्दंश-दशनौ मल्ल-मल्लकौ ॥ १६४ ॥ जिह्वायां रसना दन्त्य-तालव्यान्तर्गता रसा । रसमातृका रला च रसिका रसनं तथा ॥ १६५ ॥ गले कण्ठः कण्ठी कण्ठं शब्द-समीपयोरपि । अंसे तु स्कन्धः स्कधश्च सान्तं क्लीबमुरोंसयोः ॥१६६॥ सन्धौ तु जत्रु षण्ढे स्यात् तकार-रेफेयोगवत् । प्रवेष्टो दोर्दोषा बाहुर्बाहा बाहो भुजो भुजा ॥ १६७ ॥ भुजामध्ये कपोणिः स्यात् कफोणी च कफोणियुक् । कफणिः कफणी तद्वत्कुपरः कूपरोऽपि च ॥ १६८ ।। प्रकोष्ठे वर्गद्वितीयः स्यात् कलाचिः कलाचिका । हस्ते करः करिर्हस्तमूले तु मणिबन्धवत् ॥ १६९ ॥ , मणिः स्यात्करशाखायाममुरी चाङ्गुरिस्तथा । अङ्गुलोऽङ्गुलिरमुल्यां तर्जन्यां तु प्रदेशिनी ॥१७० ॥
"Aho Shrut Gyanam"