________________
तृतीयः काण्डः।
३
किलः केलिश्च जनके बप्पो वप्रश्च तातयुक् । ततो जनयिता तद्वज्जनित्रोऽपि च, मातरि ॥१४९॥ अम्बाऽप्यब्बा जनयित्री जनित्री जननीयुता । जानी, पित्रोः स्मृतौ माता-पितरौ, मातरात्परौ ॥१५॥ पितरः पितृशब्दश्व, ज्ञातौ स्वः स्वजनस्तथा । बान्धवो बन्धुरात्मीये स्व-स्वकीये, नपुंसके ॥ १५१ ॥ पण्डु-पाण्डौ शण्ठ-शण्ढौ तृतीयाप्रकृतिस्तथा । तृतीयप्रकृतिदेहे कलेवरं कडेवरम् ॥ १५२ ॥ तनूः स्यात्तनु-तनुषी घनस्तद्वच्च भूघनः । गानं गान्त्रं मूर्तिमच्च मूर्तिः स्यात्, कुणपे शवः॥१५३॥ शवः सान्तं भवेत् षण्ढे, मूर्ध्नि मस्तक-मस्तिके। शिरः सान्तं स्मृतं क्लीबे शिरोऽदन्तो मतो नरि ॥१५॥ चिकुरश्चिहुरः केशे ललाटस्याऽलके पुनः । भ्रमरकः स्याद् भ्रमरालको वेणिः प्रवेणियुक् ॥ १५५ ॥ केशन्यासे काकपक्षे शिखण्डक-शिखाण्डिकौ । वक्रस्त्रिषु च्छन्दस्यपि, दान्ते षण्ढे भषद् भसद्॥१५६॥ आमाशयस्थाने च, जघनेऽपि तुण्डि-तुण्डको । घनं घनोत्तमं भाले त्वलीकमलिकं तथा ॥ १५७ ॥ कर्णे श्रवणं श्रुतिवत् श्रवः श्रोत्रं च श्रौत्रकम् । नेत्रेऽक्ष्यऽक्षणं दृशि-दृशे दृग् लोचन-विलोचने ॥१५८॥ कनीनिकायां तारा स्यात् तारकाऽप्यर्धवीक्षणे । काक्षः कटाक्षो नेत्रस्य मीले मेष-मिषौ नितः॥१५९॥
"Aho Shrut Gyanam"