________________
३०
शब्दरत्नाकरे
पौत्रायण एवं पुनर्भूनानान्द्रो दुहितृवत् । पौनर्भव- पौनर्भवायणौ, नानान्द्र इत्यपि ॥ १३८ ॥ नानान्द्रायणो, दौहित्रो दोहित्रायणकस्तथा । पैत्र्यां नप्ता भवेद् नप्त्री स्यात् पितृष्वसुरात्मजे ||१३९ | पितृष्वसेयवत्पैतृष्वस्रीयो, जननीस्वसुः । पुत्रे तु मातृष्वस्त्रीयस्त इन्मातृष्वसेयकः ॥ ॥ १४० ॥ दास्याः सुते तु दासेय-दासेरौ च नटीसुते । नाटय-नाटेरौ, पुत्रे बन्धक्या बान्धकेयवत् ॥ १४१ ॥ बान्धकिनेयश्च, कौलटेरः स्यात् कौलटेयवत् । भिक्षुसत्याः सुते कौलटेय-कौलटिनेयकौ ॥ १४२ ॥ स्वजाते त्वौरसौरस्यौ, भवेद् गोलच गोलकः । मृते पत्यौ जारजोऽथ भ्रातरि स्यात्सहोदरः ॥ १४३ ॥ समानोदर्य-सोदर्य-सोदराः, ज्येष्ठभ्रातरि । अग्रजोऽग्रियाऽग्रिमकौ स्यात् कनीयांश्च कन्यसः ॥ १४४॥ यविष्ठोऽपि यवीयांश्च कनिष्ठे सोदरे समाः । ज्येष्ठ-कनिष्ठ यविष्ठास्त्रकवर्गद्वितीयकाः ॥ १४५ ॥ स्यालस्तालव्य - दन्त्यादिः पत्न्या भ्रातरि कथ्यते । देव-देवर-देवानः स्युः पत्युरनुजे, स्वसा ॥ १४६ ॥ जानिर्यानिः कुलस्त्री व भभी स्याद् भगिन्यन्विता । पत्युः खसरि ननन्दा ननान्दा नन्दनीत्यपि ॥ १४७॥ पत्नीकनिष्ठभगिन्यां श्याली शाली च, खेलने । परिहासः परीहासः कुर्दनं कूर्दनं समौ ॥ १४८ ॥
-ll
"Aho Shrut Gyanam"