________________
शब्दरत्नाकरेसमधुकस्तु वरदे स्यात् समर्धक इत्यपि ॥ ९५ ॥ सदस्ये तु पारिषद्य-पार्षद्यावथ संसदि । परिषत्-पर्षदौ तुल्ये समज्या च समाजयुक्॥ ९६ ।। आस्थानमास्था, दैवज्ञे, नैमित्तिको निमित्तवित् । नैमित्तोऽपि च, मौहूर्तो मौहूर्तिकेऽथ लेखके ॥ ९७ ॥ लिपिकरो लिविकरोऽक्षरन्यासे लिपिलिविः । मषी-मस्यौ मलिनाऽप्सु, कितवे त्रितयं स्मृतम् ॥९८॥ धा” धूर्तोऽक्षधूर्तश्च, दुरोदर-दरोदरे । द्यूतेऽथाऽक्षे पाशकः स्यात् प्रासकः शारितः फलम्।।९९॥ फलकोऽष्टापदे शारिः शारः खलनिकोच्यते । व्यालग्राह्यहितुण्डिक आहितुण्डिक इत्यपि ॥ १० ॥ मनोजवस्ताततुल्ये मनोजवसकोऽपि च । क्षेमंकरो रिष्टतात्यरिष्टताती तथाऽऽस्तिके ॥ १०१ ॥ श्राद्ध-श्रद्धालू च, सहे प्रभविष्णुः प्रभूष्णुयुक् । शक्त-शक्लावसामर्थ्यजीवके चानवस्थिते ॥ १०२ ॥ चत्वारोऽमी पराः कर्णात टिरिटिरि-ष्टिरोष्टिरा।। चुरुचुरु-श्चुरुचुरा, शिथिलः शिथिरः श्लथे ॥ १.३॥ स्थित ऊर्ध्वदमश्चोो निर्वकारो वकारवान् । ऊर्ध्वदमस्तद्भवे तु ऊर्द्धाद् दमिक दामिकौ ॥१०॥ ऊर्ध्वदमिकोऽप्यध्वगे तु स्यादध्वन्योऽध्वनीनवत् । गन्तु-गान्तू पथिकश्च पान्थः, शम्बल-सम्बले ॥१०५॥ १ वकाररहितस्तत्सहितश्च ऊर्ध्वः, ऊर्धश्चेत्यर्थः ।
"Aho Shrut Gyanam"