________________
तृतीयः काण्डः ।
पाथेये, जङ्घाकरे तु जङ्घाकरिक जाङ्घिकौ । वरिते जवी च जवनः सहायेऽभ्यनुतश्चरः ॥ १०६ ॥ अनुगाम्यनुगश्चापि सेवायां स्यादुपासना । उपास्त्युपेता चोपास्या परेश्चैषणमेषणा ॥ १०७ ॥ पत्तौ पदाति-पादातौ पादातिक-पदातिकौ । पदकः पदगः पद्गः पादाविक-पदाजिकौ ॥ १०८ ॥ प्रष्ठे सरोऽग्रेऽग्र-पुरः-परतो गम-गामि-गाः । पुरस्तः, आवेशिके तु स्तः प्राघूर्णक-प्राघुणौ ॥१०९॥ अतिथ्योऽतिथिरातिथ्य आपरौ गान्तु-गन्तुकौ । आवेशिक आतिथेय्यातिथेयातिथ्यनिःस्वनाः ॥११॥ ग्रामे भवे तु ग्रामीण-ग्रामीणौ ग्राम्य इत्यपि । ग्रामेयकश्च, लोके तु जनो जनपदस्तथा ॥ १११ ॥ देवलोके देवविशा देवविद् वाऽभिजातके । जात्याभिजौ कुलीनश्च कुल्य-कौलेयकौ समौ ॥११२॥ महाकुलीनसहितौ माहाकुल-महाकुलौ । गोत्रोऽन्वयोऽन्ववायश्च संतानः संततिस्तथा ॥ ११३ ॥ स्त्रियां महेला महिला मेहला च महेलिका । वामिर्वामा जोषा योषा स्याद् योषिदपि योषिता॥११॥ स्याद् मत्तकासिनी मत्तगामिन्यां मत्तकाशिनी । स्यलङ्कारे कुटुमितं युकार, कन्यका कनी ॥११५॥ कुमार्या, मध्यमवयःस्त्रियां स्यात् तरुणी तथा । तलुनी, युवतिथोक्ता युवत्याद्यवयःस्त्रियाम् ॥११६।।
"Aho Shrut Gyanam"