________________
तृतीयः काण्डः।
२५ पित्ते पलाग्निः पललज्वरोऽथ खेटयुक् खटः ॥ ८४ ॥ वलासो दन्त्य-तालव्यप्रान्तकः कथितो बुधैः । कफे, व्याधौ रोग-रुजौ रुजाऽप्यामय आमकः ॥ ८५॥ अमः, क्षये राजयक्ष्मा यक्ष्मा जक्ष्मापि नान्तकः । जक्ष्म-यक्ष्मावदन्तौ द्वौ, क्षवे क्षुत् क्षुतमप्यथ ॥ ८६ ।। क्षवथौ काशः कासोऽपि, खसे पामा तु पामया । कच्छुः कच्छुः स्त्रियां सर्वे, खा कण्डूयनं मतम् ॥८७॥ कण्डूः कण्डूति-कण्डूये, व्रणे रुषो रुषा सह । ईर्मोऽस्त्रियामीर्म नान्तं, गण्डे विस्फोट-स्फोटकौ ॥८८॥ पिटकः पिटका तहस्पिटकं च, किलासके । सिध्म-सिध्मे, कुष्ठभेदे द दर्दूश्च दद्रुयुक् ॥ ८९ ॥ दद्भूदर्दूश्च, कोठके मण्डलकं च मण्डलम् । हृल्लासे हिक्का हेक्कापि, पीनसे स्यादपीनसः ॥ ९ ॥ आपीनसः प्रतिश्यायः प्रतिश्या, श्वयथौ पुनः । शोफ-शोथौ, छर्दने तु च्छर्दिश्छर्दी प्रच्छर्दिका ॥११॥ वमनं वमि-बमथू, कुरण्डस्त्वण्डवर्धने । कूरण्डोऽपि, प्रमेहे तु मेहोऽपि च, चिकित्सके ॥९२॥ आयुर्वेद्यायुर्वेदिको भिषग्-भिषज-भिष्णजाः । जायौ भेषज-भैषज्ये उपचारश्चिकित्सने ॥ ९३ ॥ उपचर्यापि, सत्कृत्यालंकृतस्खकनीदये। कूकुदः कूपदश्चाऽऽपदापदे विपदा विपद् ॥ ९४ ॥ विपत्तौ, कृच्छ्रवञ्च्ये तु समौ दृडाभ-दूडभौ ।
"Aho Shrut Gyanam"