________________
शब्दरत्नाकरेमृदङ्गे मार्दलीकच मार्दलो, दुन्दुभौ पुनः ॥ ११३ ॥ भेरिर्भेरी च भेरापि, कुहालायां तु काहला । चण्डकोलाहला पत्रकाहला, सुप्तबोधके ॥ ११४ ॥ द्रगडो द्रकटश्चापि, झल्लो झर्झरी स्मृता । झलरी, बीभत्सरसे विकृतं वैकृतं तथा ।। ११५ ॥ घर्घरे हासिका हास्यं हासश्च हसनं हसः । त्रिकवर्गद्वितीयाप्ता स्मिते वक्रोष्ठिका मता ॥ ११६ ॥ शोचने शुक् शुकः शोकः, कोपे क्रोध-क्रुधा-क्रुधः । रुषा-रोष-रुषश्चाप्युत्साहे तूद्याम उद्यमः ॥ ११७ ॥ उद्योगोऽप्यभियोगश्च वीर्य त्वतिशयान्विते । वीर्यापि, साध्वसे भीति र्मिया भयमप्यथो ॥११८॥ भयङ्करे भीम-भीष्मे डमरं डामरं तथा । उड्डामरमुड्डमरं, शान्तावुपशमः शमः ॥ ११९ ॥ शमथोऽप्यथ रोमाञ्चे पुलकः पुलसंयुतः । . बाष्पे चढ़े अस्रमश्रं, चित् तान्ता चेतना, मतौ॥१२०॥
धी(दा प्रतिपत्तिश्च प्रतिपच्छेमुषी पुनः । तालव्यादिमूर्धन्यान्ता, लज्जायां स्यादपत्रपा ॥१२॥ त्रपा ही ह्रीकया ह्रीका ब्रीडा वीडो, मनःखिदि । सादाऽवसादौ, निद्रायां तन्द्रिस्तन्द्रीश्च तन्द्रया॥१२२॥ तन्यमी चत्वारः शब्दाः स्युर्मोहालस्ययोरपि । औत्सुक्य उत्कण्ठौत्कण्ठ्ये, आकारस्य तु गृहने ॥१२३॥ , अश्रुः, अनुश्च ।
"Aho Shrut Gyanam"