________________
द्वितीयः काण्डः ।
१३
यङ्लुगन्ते चर्करीतं चर्करितं, कलिन्दिका ॥ १०३ ॥ कडिन्दिका सर्वविद्या, निघण्टुर्नामसंग्रहे । निर्घुण्टुश्व, जनश्रुतौ वदन्ती किंवदन्त्यपि ॥ १०४ ॥ किंवदन्तिर्वदन्तिश्चोदन्ते वृत्तान्त-वार्त्तिके |
अभिधायां नामधेयं नामाख्याऽभिख्ययाऽऽह्वयः ॥ १०५॥ आह्रा, हूतौ तु हक्कार - कङ्कारौ, शपथे शपः । शपनं, प्रियबाहुल्ये चटु चाटु, यथास्थिते ॥ १०६ ॥ तथ्यं यथातथं सम्यक् समीचीनं च, रूक्षके । निष्ठुरं तृतीयवर्गद्वितीययुगवर्णने ॥ १०७ ॥ निष्वर्यपात्परो वादो, जुगुप्सा च जुगुप्सनम् । गर्हणा गर्हणं ग, रतशापे तु क्षारणा ॥ १०८ ॥ आक्षारणा क्षारणं च क्षरणा, मङ्गलार्थने । आशीराशषया चोभे उशत्यशुभवाचि तु ॥ १०९ ॥ रुशती रुपती सर्वे त्रिलिङ्गा वाच्यलिङ्गतः । आज्ञायां स्याद् निरोनिभ्यो देशोऽथाङ्गीकृतौ पुनः ॥ ११॥ संध्या स्यात् संघया साकं संप्रत्याङ्ग्भ्यः परः श्रवः । वर्जे वर्जनं वृजनं, नृत्ये नृत्तं च नर्त्तनम् ॥ १११ ॥ नाट्यं नटनमङ्गविक्षेपेऽङ्गाद् हारि-हारकौ । आतोये वाद्यं वादित्रं तूरं तूर्य च, बलकी ॥ ११२ ॥ तन्त्रीस्तन्त्रिश्च गन्धर्वे त्र्युकारस्तुम्बुरुः स्मृतः ।
१ निर्वादः, परिवादः, अपवादश्चेत्यर्थः । २ निर्देशः, आदेशः, निदेशश्वेत्यर्थः । ३ संश्रवः, प्रतिश्रवः, आश्रवश्चेत्यर्थः ।
"Aho Shrut Gyanam"