________________
द्वितीयः काण्डः ।
कुटारिका केटिकावाद्, ह्लादे मोदः प्रमोदयुक् । मुदाऽऽमोदौ प्रमदश्च संमदोऽपि मदो मुदा ॥ १२४ ॥ हर्ष - प्रहर्ष - हरिषा आनन्दानन्द समौ । गर्वेऽभिमान मानौ च विस्मयः स्मय इत्युभौ ॥ १२५॥ तैद्विशेषेऽहं पूर्वा-पूर्विका-प्रथमिकाऽग्रिकाः । व्यायामे तु क्लम-क्लमी परिश्रम-श्रमावपि ॥ १२६ ॥ चिन्तायां चिन्तिया ध्यानं ध्याम नान्तं नपुंसके । प्रतिचिकीर्षारूपे तु ध्याने मर्ष आमर्षकः ॥ १२७॥ चित्तस्थैर्ये मनस्कारो भवेद् मनसिकारयुक् । संभ्रमे त्वरया तूर्णिस्त्वरिस्तर्के वितर्ककः ॥ १२८ ॥ संवेगावेगार्वेहेहे परामर्शो विमर्शनम् । मृत्यौ मृतिः सर्वगे मरि-मारी मरकोऽपि च ॥ १२९ ॥ नटे भारत-भरतौ तथा भरतपुत्रकः । स्त्रीवेषधारकनटे भ्रकुंसः सम्रकुंसकः ॥ १३० ॥ भ्रूकुंसश्च भृकुंसोऽपि, केलीकिलो विदूषके । केलिकिलो वासन्तिक - वसन्तकौ च, हासिनि ॥१३१॥ केलिकिलः कैलिकिलो, विलासिनि जने पुनः । हेलिहिलो हैलिहिलः, आर्ये मारिष - मार्षकौ ॥ १३२ ॥ "चेटी- नीचा- सखीह्नाने हण्डे हजे हलाव्ययाः ।
१५
१ अवकटिकेत्यर्थः । २ गर्वविशेषे अहंपूर्वा, अहंपूर्विका, अहंप्रथमिका, अहमत्रिका चेत्यर्थः । ३ ऊह ईहा च । ४ चेट्याः, नीचायाः सख्याश्च छाने यथाक्रमं हण्डे, हजे हला चेति ।
"Aho Shrut Gyanam"