________________
शब्दरत्नाकरेजातुधानो यातुधानो जातु यातु च षण्ढकौ ॥७३॥ कर्बुरः कर्बरो रक्षः राक्षसोऽप्याशराऽऽशिरौ । तज्जनन्यां तु निकसा निकषा खषया सह ॥ ७४ ॥ वरुणे यादःपतियुक् यादसांपतिरप्पतिः । अपांपतिर्धनदे त्वैडविडैलविलौ समौ ॥ ७५ ।। कैलासौका मध्यदन्त्यो नराद् वाहण-वाहनौ । तैद्विमानं पुष्पकं स्याद् मूर्धन्यौष्ठ्यकयोगयुक् ॥७६॥ वैखोकसारा तत्पुर्यामोकःशब्दे सलोपभाक् । वित्ते ऋक्थं रिक्थमृक्तं रिक्तः सान्तं नपुंसके ॥ ७७ ॥ सारोऽस्त्रियां निधाने तु शेवाधर्नर-षण्ढभाक् । शङ्करे जोटी जोटीङ्गो गिरीशो गिरिशो हरः ॥ ७८ ॥ हीर ईशान ईशश्च वामदेवश्च वामयुक् । अहिर्बुनो बुध्नकाही महाकालः सकालकः ॥ ७९ ॥ भर्गो भार्गो भर्यः शर्व-सौं महेश्वरेश्वरौ । भीम-भीष्मौ च, तच्चापे त्वजकावमजीजकम् ॥ ८० ॥ अजगावमाजगवं भवेदजकवं तथा । अजगवं, गणेवस्य पार्षद्याः पार्षदा अपि ॥ ८१ ॥ पारिषद्याः पारिषदा, मृडान्यामीश्वरेश्वरी । कैटभी कैटभा दुर्गा दुर्गमा वरदा वरा ॥८२॥ अपर्णा चैकपर्णायुग् गौरी गौरा शिवी शिवा ।
१ राक्षसमातरि । २ धनदविमानम् । ३ वसूनामोकस्य सारो यत्र सा। पुनपुंसक इत्यर्थः । ५ बुधनकश्च अहिश्च । ६ महेशबाणे। ७ महेशस्य । ईश्वरा, ईश्वरी।
"Aho Shrut Gyanam"