________________
द्वितीयः काण्डः ।
११
भद्रकाली महाकाली काली काला च कालिका ॥८३॥ हिमा हैमवतीयुक्ता विकराला करालिका । महारौद्री सरौद्रीका जयन्ती विजया जया ॥ ८४ ॥ महाजया नन्दयन्ती नन्दिनी नन्दयाऽन्विता । सुनन्दा कुला नकुली, भैरव्यां चर्ममुण्डिका ॥ ८५ ॥ चामुण्डा चण्डमुण्डा च चर्चा चर्चिः सचर्चिका । स्कन्दे गाङ्गायनिर्गाङ्गो गाङ्गेयो भीष्मकेऽप्यमी ॥ ८६ ॥ भृङ्गिगणे भृङ्गिरिटिभृङ्गिरीटिश्च, तण्डुके । नन्दीश - नन्दिनौ नन्दिः, कैमने क-कवी विधिः ॥८७॥ विधा वेधाश्च द्वौ सान्तौ सर्वविद् विदुषोरपि । विरिञ्चन - विरिञ्ची च विरिञ्चः परमेष्ठियुक् ॥८८॥ परमेष्ठस्त्रिकवर्गद्वितीयकलितामू ।
नाभिभूर्नाभिजन्मा च विश्वसृट् विश्वसृक् तथा ॥ ८९ ॥ द्रुहिणो द्रुघणस्तद्वद् दुधनोऽपि च शम्भुयुक् । स्वयंभूरथ गोविन्दे नारायण नरायणौ ॥ ९० ॥ विष्वक्सेनो विश्वक्सेनो वृषाकपि-कपी विधुः । वेधा मुकुन्दकुन्दौ च वासुदेवश्च वासुयुक् ॥ ९१ ॥ जलेशयो जलशयोऽधोक्षजोऽक्षज एकपात्। त्रिपाद द्विपद एतद् वृषाक्षः सुवृषोऽपि च ॥ ९२ ॥ कपिलो भद्रकपिलः सुभद्रो वासुभद्रकः ।
१ धातरि । २ परमेष्टि- परमेष्टौ ।
"Aho Shrut Gyanam"