________________
द्वितीयः काण्डः। मन्दार-मन्दरौ तहद् मन्दारुश्च, पवौ शृणिः ॥ ६४ ॥ मृणिश्च वह्नावप्येतौ, भिदिरं भिदुरं भिदुः ।। भिदि-भेदी दिभिः शम्ब-सम्बौ शाम्बः शतारकः ॥६५॥ धारः शित-शतात् , वज्रोऽस्त्रियां वज्राशनिईयोः । अशनिईयोराशनः स्वार्थे प्रज्ञाद्यणा, शरुः ॥ ६६ ॥ खरु-श्वरू उदन्तौ द्वौ स्वरुः सान्तोऽथ घण्ढके । व्याधाम नान्तं, व्याधामोऽदन्तः पुंसि च, दस्रयोः॥६७॥ अश्विनावाऽश्विनेयौ च, देवत्वष्टरि विश्वकृत् । विश्वकर्मापि, खर्वध्वां वा स्त्री भूम्न्यप्सरा मता ॥६८॥ ऊर्वसी दीर्घ-हस्वादिर्दन्त्य-तालव्यभाक् क्रमात् । गन्धर्वो गायने दैवे गान्धर्वोऽपि च तहिदि ॥ ६९ ॥ अव्ययाऽनव्ययौ हाहा हाहाः सान्तोऽप्यथो हहाः। हुहुर्दिहस्खो हूहूश्च द्विदीर्घोऽव्ययमप्यथो ॥ ७० ॥ हाहाहूहूरित्यखण्डं नामैके, शमने यमः । यमराजो यमराट् च, संयमनी त्र्यकारयुक् ।। ७१ ॥ शङ्कावश्रपोऽन्तर्दन्त्योपि, हनुषो हनूषवत् । रात्रिंचरो रात्रिचरो, नृचक्षाः ख्याश्च चक्षसा ॥७२॥ त्रयः सान्ता अन्त्यषण्ढाः, क्रव्यात् क्रव्यादसंयुतः ।
१ नपुंसकलिङ्गे नान्तो व्याधामशब्दः । २ स्त्रीलिङ्गोऽप्सरःशब्दो विकल्पेन भूम्नि- बहुवचने मत इत्यर्थः । ३ दी? हूस्थश्चादिर्यस्य, तथा दन्त्यं तालय च भजते सः, ऊर्वसी, उर्वसी, ऊर्वशी, उर्वशी, इति चत्वारः शब्दाः । ५ देवसंबन्धिनीत्यर्थः । ५ अकारप्रययोगवान् संयमनीशब्दो यमपुरीवाचकः । ६ अन्त्यश्वक्षःशब्दः षण्ढो नपुंसको यत्र ते, इति सान्तविशेषणम् ।
"Aho Shrut Gyanam"