________________
शब्दरत्नाकरे—
अन्तरिक्षमन्तरीक्षं मेघे घन-घनाघनौ । ऋञ्जसानो रिञ्जसान उभ्रोऽभ्रमब्धमित्यपि ॥ ५४ ॥ गडयित्नुर्गदयित्नुवरितो वाह-वाहनौ । पर्जन्योऽष्टमवयीप्तोऽब्दमालायां तु कालिका ॥ ५५ ॥ काली वृष्टयां वर्षणं स्याद्वर्षे, तहिमके ववात् । ग्रह - ग्राहौ, घनोपले तु करः करकस्त्रिषु ॥ ५६ ॥ आशायां दिग्-दिशे काष्ठा त्रिकवर्गद्वितीयभाक् । ककुभा ककुब याम्याशाऽपाच्यवाची दिगन्तरे ॥ ५७॥ विदिक् प्रदिक् चापदिशं प्राक् प्राचीने समे मते । अपाचीनमपाक् प्रत्यक् प्रतीचीनमुदक् तथा ॥५८॥ उदीचीनमपाक् प्रत्यक् प्रागुदगव्ययान्यपि । इन्द्रे मघवा मघवान् मघवन् दल्मि वल्मिकौ ॥ ५९ ॥ नान्तौ सुत्रामा सूत्रामा हर्यश्वो हरिमान् हरिः । बिडोजाः [ः स्याद् बिडौजाश्र सन्तौ, वृत्रश्च वृत्रहा ॥६०॥ पर्जन्यः पूर्ववन्नान्तो वृषा दन्त्यद्दयान्वितः । तालव्यद्वयवानाद्यतालव्यच तृतीयकः ॥ ६१ ॥ शुनाशीरः, स्मृतेन्द्राण्यां महेन्द्राणी सची शची | शचिर्वासेवौ जयन्तः जयदत्तो जयस्तथा ॥ ६२ ॥ इन्द्रपुत्र्यां ताविषी स्याद् वात्यायां च तविष्यपि । इन्द्रहस्तिन्यैरावण ऐरावतः, ऋजौ धनौ ॥ ६३ ॥ इन्द्रस्यर्जुरोहितं स्याद् रोहितं पारिभद्रके ।
१ वासवस्यापत्यं वासविस्तस्मिन् ।
८
"Aho Shrut Gyanam"