________________
षतः काण्डः ।
जोषं जोष्यं च सौख्येऽपि आनन्दे द्वयमिष्यते ॥९४॥ उपजोषं च समुपजोषम् , सर्वासु दिक्ष्विह । समन्ततः समन्ताच्च, पुरस्तात् पुरतः पुरः ॥ ९५ ॥ पूर्वदेशेऽस्मिन् तु काले साम्प्रतं सम्प्रति स्मृतम् । शीघे झटिति झगिति द्राक् प्राक् कान्ते समे मते॥९६॥ सर्वकाले शश्वत् सश्वत पुनरर्थेपि, सर्वदा । सदा सदं सनत् सनात् सना नित्यं च नित्यदा ॥९७|| वारवारेण च वारंवारमसकृदर्थके । पुनःपुनः पुनर्मुहुमुहुर्मुहुरपि स्मृतम् ॥९८॥ सायं मान्तं दिनान्ते स्यादिने सान्तमुदन्तकम् । धुराकाशेऽपि च दिवा, तत्क्षणे सपदीति च ॥९९॥ पदन्तं स्यादेकपदे, दीर्घकाले चिराचिरम् । चिरेण चिररात्राय चिरायाऽपि चिरस्य च ॥१०॥ रात्रौ मान्तं नक्तमुषा दोषा स्यात् पक्षणी निशि । उभयेधुरुभयद्युर्निशान्ते तु उषा उषः ॥१०१॥ अभ्यर्णेऽपि हिरुक् कान्तमल्पे किञ्चिच्च किञ्चन । मनाक् कान्तम् , वितर्के किं किमूत किमुताऽपि च।।१०२॥ नुवै नु नुकं किंस्वित् खिदाऽऽहोखिदुताहो च । आ हौ, हेतौ यद् यतो येन यदि तेन च तत् ततः॥१०३॥ चैव, संबोधने पाट प्याट् हहो आहो अहो अपि । है हौ व्यस्तौ समस्तौ च स्मरणाऽऽह्वानयोरपि ॥१०॥ हो हो व्यस्तो समस्तौ च ह्वानेऽपि, अरेरे रै।
"Aho Shrut Gyanam"