________________
षष्ठः काण्डः। तालव्यदन्त्यः शुषिरम् , गर्ते गर्ता दरस्त्रिषु । स्वभ्रं तालव्यदन्त्याद्यमवटोऽवटिरित्युभौ ॥ ४ ॥ इति श्रीवादीन्द्रश्रीसाधुकीयुपाध्यायमिश्राणां शिष्यलेशेन वाचनाचार्यसाधुसुन्दरगणिना विरचितायां शब्दरत्नाकरनामशब्दप्रभेदमालायां नारककाण्डः पञ्चमः । ___ ...-----
...-------
अहम् अथ षष्ठः काण्डः ।
लोके विष्टपं पिष्टपं जगती, जगत्प्राणिनि । जन्यु-जन्तू , उद्भवे षण् जन्म जन्मोऽस्त्रियां जनिः॥१॥ जनुः सान्तं षण् जननम् , जीविते जीवस्त्रिष्वचि । जीवातुरस्त्रियां प्राणाः पुंभूम्नि जीविताध्वनि ॥ २ ॥ आयुः सान्तं च षण् आयुरुदन्तः पुंसि चोच्यते । हृद् हृदयं चित्तं चेतो मनो मानसमित्यपि ॥ ३ ॥ खान्तमास्वनिताऽऽस्वान्ते, निर्वृतौ सुख-सौख्यके । सर्म-समें नान्ताऽदन्ते दन्ततालव्याचे मते ॥ ४ ॥ शान्तं तालव्यदन्त्याचं भद्रं भन्द्रमसौख्यके । तृप्रं दृप्रं बाधा बाध आबाधा चाऽमनस्यवत् ॥ ५ ॥ अमानस्यमामनस्यम् , चर्चा चर्ची विचारणा । स्वभावे निसर्ग-सौ, पश्चात्तापोऽनुतापवत् ॥ ६॥
. अच्-प्रत्यये कृते सतीत्यर्थः । २ पुंसि बहुवचने चेत्यर्थः । ३ आस्वनित-आस्वान्तशब्दो स्वान्तपर्यायावित्यर्थः ।
"Aho Shrut Gyanam'