________________
शब्दरत्नाकरे-- शङ्खमुखः शङ्कुमुखः, ग्राहे तु तन्तु-तन्तुणौ ॥३६९|| तन्तुनागश्च नागोऽपि, कर्कटे तु कुलीरवत् । कुटीरश्च चन्द्राश्रयराशावऽपि च, कच्छपी ॥३७०॥ दुलिर्दुली दुडिर्भके प्लवगः सप्लवंगमः । प्लवः सालूच सालूरो दन्त्यतालव्यपूर्वकः ॥ ३७१ ॥ शालस्तथैव भेक्यां तु वर्षाभूरिति कथ्यते । वैर्षाव्युद्भिदि चोद्भिज्जमुद्भिदं चोद्भिजं तथा ॥३७२॥ इति श्रीवादीन्द्रश्रीसाधुकीय॒पाध्यायमिश्राणां शिष्यलेशेन वाचनाचार्यसाधुसुन्दरगणिना विरचितायां शब्दरत्नाकरनामशब्दप्रभेदनाममालायां तिर्यकाण्डश्चतुर्थः ।।
अहम्
अथ पञ्चमः काण्डः ।
नैरयिके नारकको नारकीयश्च नारकः । प्रेतः परेतः आजूः स्यूदन्ता रेफान्तिमाऽपि च ॥१॥
आजूराजूरावाजूर इत्येवं रूपसंगतिः निर्वतनकर्मकृतौ भद्राख्ये करणे तथा ॥ २ ॥ निरये दुर्गतिः स्त्रीब्रोनरको नारकान्वितः । पातालेऽधोऽव्ययं चाधः, भुवनं विवरे सुषिः ॥ ३ ॥
१ रेफान्तस्य 'आजूर' इति अब्दस्य प्रथमाविभक्तो रूपाणीति ।
२ अत्र इयन्तो वीवी-शब्दो भेकीवाचकः ।
"Aho Shrut Gyanam"