________________
(५६) भुवनदीपकः । चन्द्रदृष्टिं विनाऽन्यस्य शुभस्य यदि दृग्भवेत् ॥ शुभं प्रयोजने किंचिदन्यदुत्पद्यते तदा ॥ ७५ ॥
सं० टी०-चन्द्रदृष्टिमिति । चन्द्रो लग्नपतिं न पश्यति परम् अन्यः कोपि सौम्यग्रहो लग्नं कार्य वा पश्यति तदा वक्तव्यं प्रारब्धस्य कार्यस्य सिद्धिमध्येऽन्यत् प्रयोजनांतरं नवीनं भवतीति वाच्यम् ॥ ७५ ॥ __अर्थ-पूर्व तीन श्लोकोंसे कहे हुए चारों योगोंमें यदि लग्नेश कार्येशके ऊपर चन्द्रमाकी दृष्टि न हो और अन्य किसी शुभग्रहकी दृष्टि हो तो प्रश्नसम्बन्धी कार्यसे भिन्न नवीन कोई शुभ प्रयोजन उत्पन्न हो ॥ ७५ ॥ राजयोगा अमी ख्याताश्चत्वारोऽपि महाबलाः ॥ अत्रैव दृष्टियोगेन सामान्येन फलं स्मृतम् ॥७६॥
सं० टी०-अमी चत्वारोऽपि राजयोगाः प्रसिद्धाः बलवन्तश्च अतीव । अत्रैव राजयोगे चन्द्रादिदृष्टिसद्भावे सति सामान्येनैव फलं भवेत् इति भावः ॥ ७६ ॥ __अर्थ-पूर्व कहे हुये चारों योग महाबलिष्ठ राजयोग विख्यात हैं इन्हीं चारों योगोंमें दृष्टियोगके साम्यसे फल कहा गया है अर्थात् शुभग्रहादिक दृष्टियोगसे शुभ, अशुभग्रहादिक दृष्टियोगसे अशुभ फल कहा गया है । ७६ ॥
"Aho Shrut Gyanam"