________________
(४०) भुवनदीपकः। वामतो गतिः १४४ एवंरूपेषु ध्रुवांकेषु । कस्मिन्काले इत्याहमृगादिषट्के यदा मकरसंक्रान्तौ सूर्यः समायाति तस्मिन् दिवसे अयं ध्रुवाङ्कः । तथा कर्कटाये षट्के च पुनः बाणः कृपीटयोनिः वह्निः, विधुश्चन्द्रः । अत्रापि प्राग्वत् १३५ एवं ध्रुवाङ्केषु भागं प्राहुरित्यर्थः मकरसंक्रांतिदिनं समारभ्य मिथुनांत्यदिनं यावत् १४४ तावदयं ध्रुवांकः । तथा कर्कसंक्रांतिदिनं समारभ्य धनुरंत्यदिनं यावत् १३५ तावत् अयं ध्रुवांका । कैर्भागं प्राहुरित्याह-पादैरिति । चरणक्रमेण मापितच्छायापादैः अन्यैश्च सप्तपादान्वितैः । परन्तु मापितपादानां मध्ये एकः पादो न्यूनः क्रियते प्रथमदले प्रथममध्याह्नं यावत् एकां घटीम उनां च कृत्वा तथा द्वितीये अपराह्नदले ‘च एकां घटी दत्त्वा गताङ्कानुसारेण इष्टकालं वदेत् । दैवज्ञ इत्यर्थः । आम्नायो गुरुगम्यः । पाठान्तरेणेष्टकालमाह । “छायापादै रसोपेतैरेकशिशतं भजेत् । लब्धांके घटिका ज्ञेया एवं शेषे पलानि च ॥"इति । अन्यच्च छायापादा इति मुनि ७ संयुज्यान्नंदा ९ष्ट ८ बाहु २ ध्रुवराशिलब्धे । २८९ नयनविह्वलं द्वाभ्यां हीनं दलीकरणं तस्माच्छेषम् ॥ अर्धे दलीक्रियते दिवसो गम्यते इत्यादि ॥ ५५ ॥ इतीष्टघटीज्ञानद्वारमष्टमम् ॥ ८॥
"Aho Shrut Gyanam"