________________
संस्कृतटीका-भाषाटीकासमेतः। (३३) मणिमुक्ताफलं स्वर्ण रत्नधातुकदम्बकम् ॥ क्रयाणकार्घज्ञानानिधनस्थानान्निरीक्षयेत् ॥४४॥
सं० टी०-अथ द्वितीयस्थानवीक्षणमाह-मणिमुक्तेति । मणिश्चन्द्रकान्तादिः । मुक्ताफलं प्रसिद्धम् । स्वर्ण प्रसिद्धम् । रनं वडूयादि । धातूनां लोहादीनां सप्तानां कदम्बकं समूहः । तथा ऋयाणकानि मनिष्ठादीनि, त्रिषष्टिशतसंख्यानीति तेषाम् अर्घस्य महर्घसमर्घादेः परिज्ञानमवबोधः । एतत् सर्व धनस्थानावितीयस्थानादिलोकनीय विचारणीयमित्यर्थः ॥ ४४ ॥
अर्थ-अब द्वितीय भावका विचार लिखते हैं-मणि, मोती, सोना, रत्ल (हीरकादि) और धातुसमूह, क्रयाणक ( मंजिष्ठादि ) धान्यविशेष इन सब चीजोंकी महर्घतासमर्घतादिक विचार धनभाव ( द्वितीय स्थान ) से करना चाहिये ॥ ४४ ॥ भगिनीभ्रातृभृत्यानां दासकर्मकृतामपि ॥ कुर्वीत वीक्षणं विद्वान्सम्यग्दुश्चिक्यवेश्मनि ॥४५॥
सं० टी०-अथ तृतीयस्थाननिरीक्षणमाह-भगिनी सहोदरी। भ्राता प्रसिद्धः । भृत्यः सेवकः । दासः प्रसिद्धः । कर्मकृतां प्रेष्यकादीनां सर्वेषाम् । वीक्षणं विचारणं विद्वान्पण्डितः
"Aho Shrut Gyanam"