________________
(१२०) भुवनदीपकः । भुक्तानि तैर्भुक्तक्षैः संगतं सांप्रतधिष्ण्यमश्विन्यादिपुनर्गणनायां वर्तमानिकं नक्षत्रं स्यात् । शेषांशा भोग्याः, यल्लब्धं तदतीतनक्षत्रं शेषांशा भुज्यमाननक्षत्रभोग्यांशाः । उदाहरणम्-अद्याश्विनीनक्षत्रस्य गतघटी ४ सप्तविंशतिगुणनया १०८ षष्टि६० भागे लब्धं १ शेषांशाः ४८ ततोऽश्विन्यादिरविभुक्तः द्वादशसंयुता १२ ऐक्ये जाता १३ इति त्रयोदशाश्चिन्यादिऋक्षाणि चतुर्दशचित्राधिष्ण्यस्यांशाः ४८ वर्तते । एवं चंद्रभुक्त्याऽश्विन्यादधिष्ण्यं २७ युत ऐक्ये जातं २८ ततः सप्तविंशतिगता अश्विनीनक्षत्रमपि भुक्तं भुज्यमानभरण्यंशा ४८ वर्तते । एवमन्येष्वपि ग्रहेषु ज्ञेयम् । एते नक्षत्रस्य षष्टिषु घटिषु भुक्तौ नक्षत्रं प्रांते घटी ३ नव.९ पलानि भागः एतत्परिज्ञाय नवांशकल्पनया ग्रहान्परिज्ञाय जायास्थानस्य भावा इत्यादि विचारणीयम् । एतच ग्रहाणां विषादहर्षस्थाने परिज्ञानं विना न स्यादिति वृत्तिकारस्तम्ज्ञानार्थं श्लोकानाह-" सषष्ठं द्वादर्श लग्नाद्वक्रितोस्तमितोभ्रगाकराक्रांतादिना नष्टो नीचस्यो मित्रनीचगः ॥ १॥ सूर्यस्याग्रमवात्राहोर्मुखे पुच्छेऽय वा स्थितः। स्वगृहात्सप्तराशिस्थो ग्रहः कार्यकरो नहि ॥ २ ॥" युग्मम् । "एकराशौ सिते पक्षे चन्द्रो नेष्टः कुजेक्षितः । कृष्ण पक्षे शशी मन्दयुक्तः श्रेष्ठश्च नष्टदः॥ ३ ॥" अथ चतुर्धा ग्रहाणां हर्षस्थानान्याह-लग्ने बुधः शशी वह्नौ ३ षष्ठे भौमः६ कलत्रगः । शुक्रो नवमगः सूर्यों ९ लाभे जीवः ११ शनिळये १२"॥ १६७ ॥
"Aho Shrut Gyanam".